हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः इति वर्णाः समाख्याताः सूर्यस्य ऋतुसंभवाः
ऋतुस्वभाववर्णैश् च सूर्यः क्षेमसुभिक्षकृत् अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः
द्वादशैव पृथक्त्वेन तानि वक्ष्याम्य् अशेषतः आदित्यः सविता सूर्यो मिहिरो ऽर्कः प्रभाकरः
मार्तण्डो भास्करो भानुश् चित्रभानुर् दिवाकरः रविर् द्वादशभिस् तेषां ज्ञेयः सामान्यनामभिः
विष्णुर् धाता भगः पूषा मित्रेन्द्रौ वरुणो ऽर्यमा विवस्वान् अंशुमांस् त्वष्टा पर्जन्यो द्वादशः स्मृतः
इत्य् एते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः उत्तिष्ठन्ति सदा ह्य् एते मासैर् द्वादशभिः क्रमात्
विष्णुस् तपति चैत्रे तु वैशाखे चार्यमा तथा विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः
पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः माघे भगस् तु विज्ञेयस् त्वष्टा तपति फाल्गुने
शतैर् द्वादशभिर् विष्णू रश्मिभिर् दीप्यते सदा दीप्यते गोसहस्रेण शतैश् च त्रिभिर् अर्यमा
द्विःसप्तकैर् विवस्वांस् तु अंशुमान् पञ्चभिस् त्रिभिः विवस्वान् इव पर्जन्यो वरुणश् चार्यमा तथा
मित्रवद् भगवांस् त्वष्टा सहस्रेण शतेन च इन्द्रस् तु द्विगुणैः षड्भिर् धातैकादशभिः शतैः
सहस्रेण तु मित्रो वै पूषा तु नवभिः शतैः उत्तरोपक्रमे ऽर्कस्य वर्धन्ते रश्मयस् तथा
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः एवं रश्मिसहस्रं तु सूर्यलोकाद् अनुग्रहम्
एवं नाम्नां चतुर्विंशद् एक एषां प्रकीर्तितः विस्तरेण सहस्रं तु पुनर् अन्यत् प्रकीर्तितम्
ये तन्नामसहस्रेण स्तुवन्त्य् अर्कं प्रजापते तेषां भवति किं पुण्यं गतिश् च परमेश्वर
शृणुध्वं मुनिशार्दूलाः सारभूतं सनातनम् अलं नामसहस्रेण पठन्न् एवं स्तवं शुभम्
यानि नामानि गुह्यानि पवित्राणि शुभानि च तानि वः कीर्तयिष्यामि शृणुध्वं भास्करस्य वै
विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः लोकप्रकाशकः श्रीमांल् लोकचक्षुर् महेश्वरः
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा तपनस् तापनश् चैव शुचिः सप्ताश्ववाहनः
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः एकविंशति इत्य् एष स्तव इष्टः सदा रवेः
शरीरारोग्यदश् चैव धनवृद्धियशस्करः स्तवराज इति ख्यातस् त्रिषु लोकेषु विश्रुतः
य एतेन द्विजश्रेष्ठा द्विसंध्ये ऽस्तमनोदये स्तौति सूर्यं शुचिर् भूत्वा सर्वपापैः प्रमुच्यते
मानसं वाचिकं वापि देहजं कर्मजं तथा एकजप्येन तत् सर्वं नश्यत्य् अर्कस्य संनिधौ
एकजप्यश् च होमश् च संध्योपासनम् एव च धूपमन्त्रार्घ्यमन्त्रश् च बलिमन्त्रस् तथैव च
अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे पूजितो ऽयं महामन्त्रः सर्वपापहरः शुभः
तस्माद् यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः स्तुवीध्वं वरदं देवं सर्वकामफलप्रदम्
निर्गुणः शाश्वतो देवस् त्वया प्रोक्तो दिवाकरः पुनर् द्वादशधा जातः श्रुतो ऽस्माभिस् त्वयोदितः
स कथं तेजसो रश्मिः स्त्रिया गर्भे महाद्युतिः संभूतो भास्करो जातस् तत्र नः संशयो महान्
दक्षस्य हि सुताः श्रेष्ठा बभूवुः षष्टिः शोभनाः अदितिर् दितिर् दनुश् चैव विनताद्यास् तथैव च