इति गुह्यसमुद्देशस् तव नारद कीर्तितः अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्
सुरैर् वा मुनिभिर् वापि पुराणैर् वरदं स्मृतम् सर्वे च परमात्मानं पूजयन्ति दिवाकरम्
एवम् एतत् पुराख्यातं नारदाय तु भानुना मयापि च समाख्याता कथा भानोर् द्विजोत्तमाः
इदम् आख्यानम् आख्येयं मयाख्यातं द्विजोत्तमाः न ह्य् अनादित्यभक्ताय इदं देयं कदाचन
यश् चैतच् छ्रावयेन् नित्यं यश् चैव शृणुयान् नरः स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः
मुच्येतार्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् जिज्ञासुर् लभते ज्ञानं गतिम् इष्टां तथैव च
क्षणेन लभते ऽध्वानम् इदं यः पठते मुने यो यं कामयते कामं स तं प्राप्नोत्य् असंशयम्
तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः स च धाता विधाता च सर्वस्य जगतः प्रभुः
आदित्यमूलम् अखिलं त्रैलोक्यं मुनिसत्तमाः भवत्य् अस्माज् जगत् सर्वं सदेवासुरमानुषम्
रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् महाद्युतिमतां चैव तेजो ऽयं सार्वलौकिकम्
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः सूर्य एव त्रिलोकस्य मूलं परमदैवतम्
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः
सूर्यात् प्रसूयते सर्वं तत्र चैव प्रलीयते भावाभावौ हि लोकानाम् आदित्यान् निःसृतौ पुरा
एतत् तु ध्यानिनां ध्यानं मोक्षश् चाप्य् एष मोक्षिणाम् तत्र गच्छन्ति निर्वाणं जायन्ते ऽस्मात् पुनः पुनः
क्षणा मुहूर्ता दिवसा निशा पक्षाश् च नित्यशः मासाः संवत्सराश् चैव ऋतवश् च युगानि च
अथादित्याद् ऋते ह्य् एषां कालसंख्या न विद्यते कालाद् ऋते न नियमो नाग्नौ विहरणक्रिया
ऋतूनाम् अविभागश् च ततः पुष्पफलं कुतः कुतो वै सस्यनिष्पत्तिस् तृणौषधिगणः कुतः
अभावो व्यवहाराणां जन्तूनां दिवि चेह च जगत्प्रभावाद् विशते भास्कराद् वारितस्करात्
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिशुष्यति नावृष्ट्या परिधिं धत्ते वारिणा दीप्यते रविः
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसंनिभः श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः
हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः इति वर्णाः समाख्याताः सूर्यस्य ऋतुसंभवाः
ऋतुस्वभाववर्णैश् च सूर्यः क्षेमसुभिक्षकृत् अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः
द्वादशैव पृथक्त्वेन तानि वक्ष्याम्य् अशेषतः आदित्यः सविता सूर्यो मिहिरो ऽर्कः प्रभाकरः
मार्तण्डो भास्करो भानुश् चित्रभानुर् दिवाकरः रविर् द्वादशभिस् तेषां ज्ञेयः सामान्यनामभिः
विष्णुर् धाता भगः पूषा मित्रेन्द्रौ वरुणो ऽर्यमा विवस्वान् अंशुमांस् त्वष्टा पर्जन्यो द्वादशः स्मृतः
इत्य् एते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः उत्तिष्ठन्ति सदा ह्य् एते मासैर् द्वादशभिः क्रमात्
विष्णुस् तपति चैत्रे तु वैशाखे चार्यमा तथा विवस्वाञ् ज्येष्ठमासे तु आषाढे चांशुमान् स्मृतः
पर्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके इन्द्र आश्वयुजे मासि धाता तपति कार्त्तिके
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः माघे भगस् तु विज्ञेयस् त्वष्टा तपति फाल्गुने
शतैर् द्वादशभिर् विष्णू रश्मिभिर् दीप्यते सदा दीप्यते गोसहस्रेण शतैश् च त्रिभिर् अर्यमा