सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठति
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः एकश् चरति वै क्षेत्रे स्वैरचारी यथासुखम्
क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
अव्यक्ते च पुरे शेते पुरुषस् तेन चोच्यते विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते
तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः
महापुरुषशब्दं हि बिभर्त्य् एकः सनातनः स तु विधिक्रियायत्तः सृजत्य् आत्मानम् आत्मना
शतधा सहस्रधा चैव तथा शतसहस्रधा कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना
आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा भूमे रसविशेषेण तथा गुणरसात् तु सः
एक एव यथा वायुर् देहेष्व् एव हि पञ्चधा एकत्वं च पृथक्त्वं च तथा तस्य न संशयः
स्थानान्तरविशेषाच् च यथाग्निर् लभते पराम् संज्ञां तथा मुने सो ऽयं ब्रह्मादिषु तथाप्नुयात्
यथा दीपसहस्राणि दीप एकः प्रसूयते तथा रूपसहस्राणि स एकः संप्रसूयते
यदा स बुध्यत्य् आत्मानं तदा भवति केवलः एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् अक्षयश् चाप्रमेयश् च सर्वगश् च स उच्यते
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तमाः अव्यक्ताव्यक्तभावस्था या सा प्रकृतिर् उच्यते
तां योनिं ब्रह्मणो विद्धि यो ऽसौ सदसदात्मकः लोके च पूज्यते यो ऽसौ दैवे पित्र्ये च कर्मणि
नास्ति तस्मात् परो ह्य् अन्यः पिता देवो ऽपि वा द्विजाः आत्मना स तु विज्ञेयस् ततस् तं पूजयाम्य् अहम्
स्वर्गेष्व् अपि हि ये केचित् तं नमस्यन्ति देहिनः तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम्
तं देवाः स्वाश्रमस्थाश् च नानामूर्तिसमाश्रिताः भक्त्या संपूजयन्त्य् आद्यं गतिश् चैषां ददाति सः
स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्
ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः एतद् अप्य् अधिकं तेषां यद् एकं प्रविशन्त्य् उत
इति गुह्यसमुद्देशस् तव नारद कीर्तितः अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्
सुरैर् वा मुनिभिर् वापि पुराणैर् वरदं स्मृतम् सर्वे च परमात्मानं पूजयन्ति दिवाकरम्
एवम् एतत् पुराख्यातं नारदाय तु भानुना मयापि च समाख्याता कथा भानोर् द्विजोत्तमाः
इदम् आख्यानम् आख्येयं मयाख्यातं द्विजोत्तमाः न ह्य् अनादित्यभक्ताय इदं देयं कदाचन
यश् चैतच् छ्रावयेन् नित्यं यश् चैव शृणुयान् नरः स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः
मुच्येतार्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् जिज्ञासुर् लभते ज्ञानं गतिम् इष्टां तथैव च
क्षणेन लभते ऽध्वानम् इदं यः पठते मुने यो यं कामयते कामं स तं प्राप्नोत्य् असंशयम्
तस्माद् भवद्भिः सततं स्मर्तव्यो भगवान् रविः स च धाता विधाता च सर्वस्य जगतः प्रभुः
आदित्यमूलम् अखिलं त्रैलोक्यं मुनिसत्तमाः भवत्य् अस्माज् जगत् सर्वं सदेवासुरमानुषम्
रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् महाद्युतिमतां चैव तेजो ऽयं सार्वलौकिकम्