यजन्ति त्वाम् अहरहस् त्वां मूर्तित्वं समाश्रितम् पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम्
यजसे पितरं कं त्वं देवं वापि न विद्महे
अवाच्यम् एतद् वक्तव्यं परं गुह्यं सनातनम् त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्
यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम् इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैर् विवर्जितम्
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चैव कथ्यते त्रिगुणाद् व्यतिरिक्तो ऽसौ पुरुषश् चैव कल्पितः
हिरण्यगर्भो भगवान् सैव बुद्धिर् इति स्मृतः महान् इति च योगेषु प्रधानम् इति कथ्यते
सांख्ये च कथ्यते योगे नामभिर् बहुधात्मकः स च त्रिरूपो विश्वात्मा शर्वो ऽक्षर इति स्मृतः
धृतम् एकात्मकं तेन त्रैलोक्यम् इदम् आत्मना अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ
वसन्न् अपि शरीरेषु न स लिप्येत कर्मभिः ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः
सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित् क्वचित् सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्य् असौ स्मृतः
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठति
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः एकश् चरति वै क्षेत्रे स्वैरचारी यथासुखम्
क्षेत्राणीह शरीराणि तेषां चैव यथासुखम् तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
अव्यक्ते च पुरे शेते पुरुषस् तेन चोच्यते विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते
तस्मात् स बहुरूपत्वाद् विश्वरूप इति स्मृतः तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः
महापुरुषशब्दं हि बिभर्त्य् एकः सनातनः स तु विधिक्रियायत्तः सृजत्य् आत्मानम् आत्मना
शतधा सहस्रधा चैव तथा शतसहस्रधा कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना
आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा भूमे रसविशेषेण तथा गुणरसात् तु सः
एक एव यथा वायुर् देहेष्व् एव हि पञ्चधा एकत्वं च पृथक्त्वं च तथा तस्य न संशयः
स्थानान्तरविशेषाच् च यथाग्निर् लभते पराम् संज्ञां तथा मुने सो ऽयं ब्रह्मादिषु तथाप्नुयात्
यथा दीपसहस्राणि दीप एकः प्रसूयते तथा रूपसहस्राणि स एकः संप्रसूयते
यदा स बुध्यत्य् आत्मानं तदा भवति केवलः एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् अक्षयश् चाप्रमेयश् च सर्वगश् च स उच्यते
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तमाः अव्यक्ताव्यक्तभावस्था या सा प्रकृतिर् उच्यते
तां योनिं ब्रह्मणो विद्धि यो ऽसौ सदसदात्मकः लोके च पूज्यते यो ऽसौ दैवे पित्र्ये च कर्मणि
नास्ति तस्मात् परो ह्य् अन्यः पिता देवो ऽपि वा द्विजाः आत्मना स तु विज्ञेयस् ततस् तं पूजयाम्य् अहम्
स्वर्गेष्व् अपि हि ये केचित् तं नमस्यन्ति देहिनः तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम्
तं देवाः स्वाश्रमस्थाश् च नानामूर्तिसमाश्रिताः भक्त्या संपूजयन्त्य् आद्यं गतिश् चैषां ददाति सः
स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्
ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः एतद् अप्य् अधिकं तेषां यद् एकं प्रविशन्त्य् उत