अस्य रश्मिसहस्राणि शाखा इव विहंगमाः वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह
गृहस्था जनकाद्याश् च राजानो योगधर्मिणः वालखिल्यादयश् चैव ऋषयो ब्रह्मवादिनः
वानप्रस्थाश् च ये चान्ये व्यासाद्या भिक्षवस् तथा योगम् आस्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम्
शुको व्याससुतः श्रीमान् योगधर्मम् अवाप्य सः आदित्यकिरणान् गत्वा ह्य् अपुनर्भावम् आस्थितः
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः प्रत्यक्षो ऽयं परो देवः सूर्यस् तिमिरनाशनः
तस्माद् अन्यत्र भक्तिर् हि न कार्या शुभम् इच्छता यस्माद् दृष्टेर् अगम्यास् ते देवा विष्णुपुरोगमाः
अतो भवद्भिः सततम् अभ्यर्च्यो भगवान् रविः स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः
अनाद्यो लोकनाथो ऽसौ रश्मिमाली जगत्पतिः मित्रत्वे च स्थितो यस्मात् तपस् तेपे द्विजोत्तमाः
अनादिनिधनो ब्रह्मा नित्यश् चाक्षय एव च सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश
लोकानां स हितार्थाय स्थितश् चन्द्रसरित्तटे सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः
ततः शतसहस्रांशुर् अव्यक्तश् च पुनः स्वयम् कृत्वा द्वादशधात्मानम् आदित्यम् उपपद्यते
इन्द्रो धाताथ पर्जन्यस् त्वष्टा पूषार्यमा भगः विवस्वान् विष्णुर् अंशश् च वरुणो मित्र एव च
आभिर् द्वादशभिस् तेन सूर्येण परमात्मना कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः
तस्य या प्रथमा मूर्तिर् आदित्यस्येन्द्रसंज्ञिता स्थिता सा देवराजत्वे देवानां रिपुनाशिनी
द्वितीया तस्य या मूर्तिर् नाम्ना धातेति कीर्तिता स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः
तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता मेघेष्व् एव स्थिता सा तु वर्षते च गभस्तिभिः
चतुर्थी तस्य या मूर्तिर् नाम्ना त्वष्टेति विश्रुता स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः
पञ्चमी तस्य या मूर्तिर् नाम्ना पूषेति विश्रुता अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः
मूर्तिः षष्ठी रवेर् या तु अर्यमा इति विश्रुता वायोः संसरणा सा तु देवेष्व् एव समाश्रिता
भानोर् या सप्तमी मूर्तिर् नाम्ना भगेति विश्रुता भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम्
मूर्तिर् या त्व् अष्टमी तस्य विवस्वान् इति विश्रुता अग्नौ प्रतिष्ठिता सा तु पचत्य् अन्नं शरीरिणाम्
नवमी चित्रभानोर् या मूर्तिर् विष्णुश् च नामतः प्रादुर्भवति सा नित्यं देवानाम् अरिसूदनी
दशमी तस्य या मूर्तिर् अंशुमान् इति विश्रुता वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः
मूर्तिस् त्व् एकादशी भानोर् नाम्ना वरुणसंज्ञिता जलेष्व् अवस्थिता सा तु प्रजां पुष्णाति नित्यशः
मूर्तिर् या द्वादशी भानोर् नाम्ना मित्रेति संज्ञिता लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे
वायुभक्षस् तपस् तेपे स्थित्वा मैत्रेण चक्षुषा अनुगृह्णन् सदा भक्तान् वरैर् नानाविधैस् तु सः
एवं सा जगतां मूर्तिर् हिता विहिता पुरा तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम्
आभिर् द्वादशभिस् तेन सवित्रा परमात्मना कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः
तस्माद् ध्येयो नमस्यश् च द्वादशस्थासु मूर्तिषु भक्तिमद्भिर् नरैर् नित्यं तद्गतेनान्तरात्मना
इत्य् एवं द्वादशादित्यान् नमस्कृत्वा तु मानवः नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते