क्षीरेण तर्पणं कृत्वा मनस् तापैर् न युज्यते दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः
स्नानार्थम् आहरेद् यस् तु जलं भानोः समाहितः तीर्थेषु शुचितापन्नः स याति परमां गतिम्
छत्त्रं ध्वजं वितानं वा पताकां चामराणि च श्रद्धया भानवे दत्त्वा गतिम् इष्टाम् अवाप्नुयात्
यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति तत् तस्य शतसाहस्रम् उत्पादयति भास्करः
मानसं वाचिकं वापि कायजं यच् च दुष्कृतम् सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति
एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् यथोक्तदक्षिणैर् विप्रैर् न तत् क्रतुशतैर् अपि
अहो देवस्य माहात्म्यं श्रुतम् एवं जगत्पते भास्करस्य सुरश्रेष्ठ वदतस् तेषु दुर्लभम्
भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः य इच्छेन् मोक्षम् आस्थातुं देवतां कां यजेत सः
कुतो ह्य् अस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम् स्वर्गतश् चैव किं कुर्याद् येन न च्यवते पुनः
देवानां चात्र को देवः पितॄणां चैव कः पिता यस्मात् परतरं नास्ति तन् मे ब्रूहि सुरेश्वर
कुतः सृष्टम् इदं विश्वं सर्वं स्थावरजङ्गमम् प्रलये च कम् अभ्येति तद् भवान् वक्तुम् अर्हति
उद्यन्न् एवैष कुरुते जगद् वितिमिरं करैः नातः परतरो देवः कश्चिद् अन्यो द्विजोत्तमाः
अनादिनिधनो ह्य् एष पुरुषः शाश्वतो ऽव्ययः तापयत्य् एष त्रींल् लोकान् भवन् रश्मिभिर् उल्बणः
सर्वदेवमयो ह्य् एष तपतां तपनो वरः सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः
संक्षिपत्य् एष भूतानि तथा विसृजते पुनः एष भाति तपत्य् एष वर्षत्य् एष गभस्तिभिः
एष धाता विधाता च भूतादिर् भूतभावनः न ह्य् एष क्षयम् आयाति नित्यम् अक्षयमण्डलः
पितॄणां च पिता ह्य् एष देवतानां हि देवता ध्रुवं स्थानं स्मृतं ह्य् एतद् यस्मान् न च्यवते पुनः
सर्गकाले जगत् कृत्स्नम् आदित्यात् संप्रसूयते प्रलये च तम् अभ्येति भास्करं दीप्ततेजसम्
योगिनश् चाप्य् असंख्यातास् त्यक्त्वा गृहकलेवरम् वायुर् भूत्वा विशन्त्य् अस्मिंस् तेजोराशौ दिवाकरे
अस्य रश्मिसहस्राणि शाखा इव विहंगमाः वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह
गृहस्था जनकाद्याश् च राजानो योगधर्मिणः वालखिल्यादयश् चैव ऋषयो ब्रह्मवादिनः
वानप्रस्थाश् च ये चान्ये व्यासाद्या भिक्षवस् तथा योगम् आस्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम्
शुको व्याससुतः श्रीमान् योगधर्मम् अवाप्य सः आदित्यकिरणान् गत्वा ह्य् अपुनर्भावम् आस्थितः
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः प्रत्यक्षो ऽयं परो देवः सूर्यस् तिमिरनाशनः
तस्माद् अन्यत्र भक्तिर् हि न कार्या शुभम् इच्छता यस्माद् दृष्टेर् अगम्यास् ते देवा विष्णुपुरोगमाः
अतो भवद्भिः सततम् अभ्यर्च्यो भगवान् रविः स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः
अनाद्यो लोकनाथो ऽसौ रश्मिमाली जगत्पतिः मित्रत्वे च स्थितो यस्मात् तपस् तेपे द्विजोत्तमाः
अनादिनिधनो ब्रह्मा नित्यश् चाक्षय एव च सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश
लोकानां स हितार्थाय स्थितश् चन्द्रसरित्तटे सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः