शुक्लपक्षस्य सप्तम्याम् उपवासपरो नरः सर्वशुक्लोपहारेण पूजयेद् यस् तु भास्करम्
सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति अर्कसंपुटसंयुक्तम् उदकं प्रसृतं पिबेत्
क्रमवृद्ध्या चतुर्विंशम् एकैकं क्षपयेत् पुनः द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत्
सर्वकामप्रदा ह्य् एषा प्रशस्ता ह्य् अर्कसप्तमी शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत्
सप्तमी विजया नाम तत्र दत्तं महत् फलम् स्नानं दानं तपो होम उपवासस् तथैव च
सर्वं विजयसप्तम्यां महापातकनाशनम् ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः
यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम्
न कुले जायते तेषां दरिद्रो व्याधितो ऽपि वा श्वेतया रक्तया वापि पीतमृत्तिकयापि वा
उपलेपनकर्ता तु चिन्तितं लभते फलम् चित्रभानुं विचित्रैस् तु कुसुमैश् च सुगन्धिभिः
पूजयेत् सोपवासो यः स कामान् ईप्सितांल् लभेत् घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः
आदित्यं पूजयेद् यस् तु चक्षुषा न स हीयते दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते
तिलाः पवित्रं तैलं वा तिलगोदानम् उत्तमम् अग्निकार्ये च दीपे च महापातकनाशनम्
दीपं ददाति यो नित्यं देवतायतनेषु च चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत्
हविर्भिः प्रथमः कल्पो द्वितीयश् चौषधीरसैः वसामेदोस्थिनिर्यासैर् न तु देयः कथंचन
भवेद् ऊर्ध्वगतिर् दीपो न कदाचिद् अधोगतिः दाता दीप्यति चाप्य् एवं न तिर्यग्गतिम् आप्नुयात्
ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत्
दीपदाता स्वर्गलोके दीपमालेव राजते यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः
संपद्यते नरः प्रेत्य धनेन यशसा श्रिया रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर् नरः
उदये ऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल् लभेत् उदयात् परिवर्तेत यावद् अस्तमने स्थितः
जपन्न् अभिमुखः किंचिन् मन्त्रं स्तोत्रम् अथापि वा आदित्यव्रतम् एतत् तु महापातकनाशनम्
अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते
सुवर्णधेनुअनड्वाहवसुधावस्त्रसंयुतम् अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्
अग्नौ तोये ऽन्तरिक्षे च शुचौ भूम्यां तथैव च प्रतिमायां तथा पिण्ड्यां देयम् अर्घ्यं प्रयत्नतः
नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा सघृतं गुग्गुलं वापि रवेर् भक्तिसमन्वितः
तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः श्रीवासं चतुरस्रं च देवदारुं तथैव च
कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः अयने तूत्तरे सूर्यम् अथवा दक्षिणायने
पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते विषुवेषूपरागेषु षडशीतिमुखेषु च
पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते एवं वेलासु सर्वासु सर्वकालं च मानवः
भक्त्या पूजयते यो ऽर्कं सो ऽर्कलोके महीयते कृसरैः पायसैः पूपैः फलमूलघृतौदनैः
बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः