आहूतसंप्लवं यावद् भुक्त्वा भोगान् मनोरमान् पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते
शांकरं योगम् आस्थाय ततो मोक्षं व्रजन्ति ते यस् तत्र सवितुः क्षेत्रे प्राणांस् त्यजति मानवः
स सूर्यलोकम् आस्थाय देववन् मोदते दिवि पुनर् मानुषतां प्राप्य राजा भवति धार्मिकः
योगं रवेः समासाद्य ततो मोक्षम् अवाप्नुयात् एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम्
कोणार्कस्योदधेस् तीरे भुक्तिमुक्तिफलप्रदः
श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्
न तृप्तिम् अधिगच्छामः शृण्वन्तः सुखदां कथाम् तव वक्त्रोद्भवां पुण्याम् आदित्यस्याघनाशिनीम्
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर देवपूजाफलं यच् च यच् च दानफलं प्रभो
प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे दीपधूपप्रदाने च संमार्जनविधौ च यत्
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने अर्घश् च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते
कथं च क्रियते भक्तिः कथं देवः प्रसीदति एतत् सर्वं सुरश्रेष्ठ श्रोतुम् इच्छामहे वयम्
अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत
मनसा भावना भक्तिर् इष्टा श्रद्धा च कीर्त्यते ध्यानं समाधिर् इत्य् उक्तं शृणुध्वं सुसमाहिताः
तत्कथां श्रावयेद् यस् तु तद्भक्तान् पूजयीत वा अग्निशुश्रूषकश् चैव स वै भक्तः सनातनः
तच्चित्तस् तन्मनाश् चैव देवपूजारतः सदा तत्कर्मकृद् भवेद् यस् तु स वै भक्तः सनातनः
देवार्थे क्रियमाणानि यः कर्माण्य् अनुमन्यते कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः
नाभ्यसूयेत तद्भक्तान् न निन्द्याच् चान्यदेवताम् आदित्यव्रतचारी च स वै भक्ततरो नरः
गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः
एवंविधा त्व् इयं भक्तिः सदा कार्या विजानता भक्त्या समाधिना चैव स्तवेन मनसा तथा
क्रियते नियमो यस् तु दानं विप्राय दीयते प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस् तथा
पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत्
स्तुतिजप्योपहारेण पूजयापि विवस्वतः उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते
प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः
भक्तियुक्तो नरो यो ऽसौ रवेः कुर्यात् प्रदक्षिणाम् प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् प्रदक्षिणीकृतास् तेन सर्वे देवा भवन्ति हि
एकाहारो नरो भूत्वा षष्ठ्यां यो ऽर्चयते रविम् नियमव्रतचारी च भवेद् भक्तिसमन्वितः
सप्तम्यां वा महाभागाः सो ऽश्वमेधफलं लभेत् अहोरात्रोपवासेन पूजयेद् यस् तु भास्करम्
सप्तम्याम् अथवा षष्ठ्यां स याति परमां गतिम् कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः
सर्वरत्नोपहारेण पूजयेद् यस् तु भास्करम् पद्मप्रभेण यानेन सूर्यलोकं स गच्छति