उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसंप्लवम्
पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः
योगं विवस्वतः प्राप्य ततो मोक्षम् अवाप्नुयात् चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम्
यः करोति नरस् तत्र पूर्वोक्तं स फलं लभेत् शयनोत्थापने भानोः संक्रान्त्यां विषुवायने
वारे रवेस् तिथौ चैव पर्वकाले ऽथवा द्विजाः ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः
विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते आस्ते तत्र महादेवस् तीरे नदनदीपतेः
रामेश्वर इति ख्यातः सर्वकामफलप्रदः ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ
गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः प्रणिपातैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः
राजसूयफलं सम्यग् वाजिमेधफलं तथा प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा
कामगेन विमानेन किङ्किणीजालमालिना उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते
आहूतसंप्लवं यावद् भुक्त्वा भोगान् मनोरमान् पुण्यक्षयाद् इहागत्य चातुर्वेदा भवन्ति ते
शांकरं योगम् आस्थाय ततो मोक्षं व्रजन्ति ते यस् तत्र सवितुः क्षेत्रे प्राणांस् त्यजति मानवः
स सूर्यलोकम् आस्थाय देववन् मोदते दिवि पुनर् मानुषतां प्राप्य राजा भवति धार्मिकः
योगं रवेः समासाद्य ततो मोक्षम् अवाप्नुयात् एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम्
कोणार्कस्योदधेस् तीरे भुक्तिमुक्तिफलप्रदः
श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्
न तृप्तिम् अधिगच्छामः शृण्वन्तः सुखदां कथाम् तव वक्त्रोद्भवां पुण्याम् आदित्यस्याघनाशिनीम्
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर देवपूजाफलं यच् च यच् च दानफलं प्रभो
प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे दीपधूपप्रदाने च संमार्जनविधौ च यत्
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने अर्घश् च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते
कथं च क्रियते भक्तिः कथं देवः प्रसीदति एतत् सर्वं सुरश्रेष्ठ श्रोतुम् इच्छामहे वयम्
अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत
मनसा भावना भक्तिर् इष्टा श्रद्धा च कीर्त्यते ध्यानं समाधिर् इत्य् उक्तं शृणुध्वं सुसमाहिताः
तत्कथां श्रावयेद् यस् तु तद्भक्तान् पूजयीत वा अग्निशुश्रूषकश् चैव स वै भक्तः सनातनः
तच्चित्तस् तन्मनाश् चैव देवपूजारतः सदा तत्कर्मकृद् भवेद् यस् तु स वै भक्तः सनातनः
देवार्थे क्रियमाणानि यः कर्माण्य् अनुमन्यते कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः
नाभ्यसूयेत तद्भक्तान् न निन्द्याच् चान्यदेवताम् आदित्यव्रतचारी च स वै भक्ततरो नरः
गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः
एवंविधा त्व् इयं भक्तिः सदा कार्या विजानता भक्त्या समाधिना चैव स्तवेन मनसा तथा
क्रियते नियमो यस् तु दानं विप्राय दीयते प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस् तथा