सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम्
उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसंनिभम् ततस् तत् पात्रम् आदाय जानुभ्यां धरणीं गतः
कृत्वा शिरसि तत् पात्रम् एकचित्तस् तु वाग्यतः त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत्
अदीक्षितस् तु तस्यैव नाम्नैवार्घं प्रयच्छति श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर् यतः
अग्निनिरृतिवाय्वीशमध्यपूर्वादिदिक्षु च हृच् छिरश् च शिखावर्मनेत्राण्य् अस्त्रं च पूजयेत्
दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यम् एव च जप्त्वा स्तुत्वा नमस् कृत्वा मुद्रां बद्ध्वा विसर्जयेत्
ये वार्घ्यं संप्रयच्छन्ति सूर्याय नियतेन्द्रियाः ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च संयताः
भक्तिभावेन सततं विशुद्धेनान्तरात्मना ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम्
त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् ये संश्रयन्ति मनुजास् ते स्युः सुखस्य भाजनम्
यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् तावन् न पूजयेद् विष्णुं शंकरं वा सुरेश्वरम्
तस्मात् प्रयत्नम् आस्थाय दद्याद् अर्घ्यं दिने दिने आदित्याय शुचिर् भूत्वा पुष्पैर् गन्धैर् मनोरमैः
एवं ददाति यश् चार्घ्यं सप्तम्यां सुसमाहितः आदित्याय शुचिः स्नातः स लभेद् ईप्सितं फलम्
रोगाद् विमुच्यते रोगी वित्तार्थी लभते धनम् विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत्
यं यं कामम् अभिध्यायन् सूर्यायार्घ्यं प्रयच्छति तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः
स्नात्वा वै सागरे दत्त्वा सूर्यायार्घ्यं प्रणम्य च नरो वा यदि वा नारी सर्वकामफलं लभेत्
ततः सूर्यालयं गच्छेत् पुष्पम् आदाय वाग्यतः प्रविश्य पूजयेद् भानुं कृत्वा तु त्रिः प्रदक्षिणम्
पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः गन्धैः पुष्पैस् तथा दीपैर् धूपैर् नैवेद्यकैर् अपि
दण्डवत् प्रणिपातैश् च जयशब्दैस् तथा स्तवैः एवं संपूज्य तं देवं सहस्रांशुं जगत्पतिम्
दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः सर्वपापविनिर्मुक्तो युवा दिव्यवपुर् नरः
सप्तावरान् सप्त परान् वंशान् उद्धृत्य भो द्विजाः विमानेनार्कवर्णेन कामगेन सुवर्चसा
उपगीयमानो गन्धर्वैः सूर्यलोकं स गच्छति भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसंप्लवम्
पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले चतुर्वेदो भवेद् विप्रः स्वधर्मनिरतः शुचिः
योगं विवस्वतः प्राप्य ततो मोक्षम् अवाप्नुयात् चैत्रे मासि सिते पक्षे यात्रां दमनभञ्जिकाम्
यः करोति नरस् तत्र पूर्वोक्तं स फलं लभेत् शयनोत्थापने भानोः संक्रान्त्यां विषुवायने
वारे रवेस् तिथौ चैव पर्वकाले ऽथवा द्विजाः ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः
विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते आस्ते तत्र महादेवस् तीरे नदनदीपतेः
रामेश्वर इति ख्यातः सर्वकामफलप्रदः ये तं पश्यन्ति कामारिं स्नात्वा सम्यङ् महोदधौ
गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैर् वरैः प्रणिपातैस् तथा स्तोत्रैर् गीतैर् वाद्यैर् मनोहरैः
राजसूयफलं सम्यग् वाजिमेधफलं तथा प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा
कामगेन विमानेन किङ्किणीजालमालिना उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते