लवणस्योदधेस् तीरे पवित्रे सुमनोहरे सर्वत्र वालुकाकीर्णे देशे सर्वगुणान्विते
चम्पकाशोकबकुलैः करवीरैः सपाटलैः पुंनागैः कर्णिकारैश् च बकुलैर् नागकेसरैः
तगरैर् धवबाणैश् च अतिमुक्तैः सकुब्जकैः मालतीकुन्दपुष्पैश् च तथान्यैर् मल्लिकादिभिः
केतकीवनखण्डैश् च सर्वर्तुकुसुमोज्ज्वलैः कदम्बैर् लकुचैः शालैः पनसैर् देवदारुभिः
सरलैर् मुचुकुन्दैश् च चन्दनैश् च सितेतरैः अश्वत्थैः सप्तपर्णैश् च आम्रैर् आम्रातकैस् तथा
तालैः पूगफलैश् चैव नारिकेरैः कपित्थकैः अन्यैश् च विविधैर् वृक्षैः सर्वतः समलंकृतम्
क्षेत्रं तत्र रवेः पुण्यम् आस्ते जगति विश्रुतम् समन्ताद् योजनं साग्रं भुक्तिमुक्तिफलप्रदम्
आस्ते तत्र स्वयं देवः सहस्रांशुर् दिवाकरः कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः
माघे मासि सिते पक्षे सप्तम्यां संयतेन्द्रियः कृतोपवासो यत्रेत्य स्नात्वा तु मकरालये
कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् सागरे विधिवत् स्नात्वा शर्वर्यन्ते समाहितः
देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य च द्विजाः उत्तीर्य वाससी धौते परिधाय सुनिर्मले
आचम्य प्रयतो भूत्वा तीरे तस्य महोदधेः उपविश्योदये काले प्राङ्मुखः सवितुस् तदा
विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा अष्टपत्त्रं केसराढ्यं वर्तुलं चोर्ध्वकर्णिकम्
तिलतण्डुलतोयं च रक्तचन्दनसंयुतम् रक्तपुष्पं सदर्भं च प्रक्षिपेत् ताम्रभाजने
ताम्राभावे ऽर्कपत्त्रस्य पुटे कृत्वा तिलादिकम् पिधाय तन् मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत्
करन्यासाङ्गविन्यासं कृत्वाङ्गैर् हृदयादिभिः आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः
मध्ये चाग्निदले धीमान् नैरृते श्वसने दले कामारिगोचरे चैव पुनर् मध्ये च पूजयेत्
प्रभूतं विमलं सारम् आराध्यं परमं सुखम् संपूज्य पद्मम् आवाह्य गगनात् तत्र भास्करम्
कर्णिकोपरि संस्थाप्य ततो मुद्रां प्रदर्शयेत् कृत्वा स्नानादिकं सर्वं ध्यात्वा तं सुसमाहितः
सितपद्मोपरि रविं तेजोबिम्बे व्यवस्थितम् पिङ्गाक्षं द्विभुजं रक्तं पद्मपत्त्रारुणाम्बरम्
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् सुरूपं वरदं शान्तं प्रभामण्डलमण्डितम्
उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसंनिभम् ततस् तत् पात्रम् आदाय जानुभ्यां धरणीं गतः
कृत्वा शिरसि तत् पात्रम् एकचित्तस् तु वाग्यतः त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत्
अदीक्षितस् तु तस्यैव नाम्नैवार्घं प्रयच्छति श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर् यतः
अग्निनिरृतिवाय्वीशमध्यपूर्वादिदिक्षु च हृच् छिरश् च शिखावर्मनेत्राण्य् अस्त्रं च पूजयेत्
दत्त्वार्घ्यं गन्धधूपं च दीपं नैवेद्यम् एव च जप्त्वा स्तुत्वा नमस् कृत्वा मुद्रां बद्ध्वा विसर्जयेत्
ये वार्घ्यं संप्रयच्छन्ति सूर्याय नियतेन्द्रियाः ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च संयताः
भक्तिभावेन सततं विशुद्धेनान्तरात्मना ते भुक्त्वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम्
त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् ये संश्रयन्ति मनुजास् ते स्युः सुखस्य भाजनम्
यावन् न दीयते चार्घ्यं भास्कराय यथोदितम् तावन् न पूजयेद् विष्णुं शंकरं वा सुरेश्वरम्