तुम्बुरास् तु चराश् चैव यवनाः पवनैः सह अभया रुण्डिकेराश् च चर्चरा होत्रधर्तयः
एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश् च ये
नीहारास् तुषमार्गाश् च कुरवस् तुङ्गणाः खसाः कर्णप्रावरणाश् चैव ऊर्णा दर्घाः सकुन्तकाः
चित्रमार्गा मालवाश् च किरातास् तोमरैः सह कृतत्रेतादिकश् चात्र चतुर्युगकृतो विधिः
एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् दक्षिणे परतो यस्य पूर्वे चैव महोदधिः
हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः
ब्रह्मत्वम् अमरेशत्वं देवत्वं मरुतां तथा मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः
स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः प्रयान्ति कर्मभूर् विप्रा नान्या लोकेषु विद्यते
देवानाम् अपि भो विप्राः सदैवैष मनोरथः अपि मानुष्यम् आप्स्यामो देवत्वात् प्रच्युताः क्षितौ
मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः तत्कर्मनिगडग्रस्तैस् तत्कर्मक्षपणोन्मुखैः
न भारतसमं वर्षं पृथिव्याम् अस्ति भो द्विजाः यत्र विप्रादयो वर्णाः प्राप्नुवन्त्य् अभिवाञ्छितम्
धन्यास् ते भारते वर्षे जायन्ते ये नरोत्तमाः धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम्
प्राप्यते यत्र तपसः फलं परमदुर्लभम् सर्वदानफलं चैव सर्वयज्ञफलं तथा
तीर्थयात्राफलं चैव गुरुसेवाफलं तथा देवताराधनफलं स्वाध्यायस्य फलं द्विजाः
यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् नानाव्रतफलं चैव नानाशास्त्रफलं तथा
अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम्
यत् फलं वनवासेन संन्यासेन च यत् फलम् इष्टापूर्तफलं चैव तथान्यच् छुभकर्मणाम्
प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः
एवं सम्यङ् मया प्रोक्तं भारतं वर्षम् उत्तमम् सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम्
य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ओण्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः
समुद्राद् उत्तरं तावद् यावद् विरजमण्डलम् देशो ऽसौ पुण्यशीलानां गुणैः सर्वैर् अलंकृतः
तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः तपःस्वाध्यायनिरता वन्द्याः पूज्याश् च ते सदा
श्राद्धे दाने विवाहे च यज्ञे वाचार्यकर्मणि प्रशस्ताः सर्वकार्येषु तत्रदेशोद्भवा द्विजाः
षट्कर्मनिरतास् तत्र ब्राह्मणा वेदपारगाः इतिहासविदश् चैव पुराणार्थविशारदाः
सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः अग्निहोत्ररताः केचित् केचित् स्मार्ताग्नितत्पराः
पुत्रदारधनैर् युक्ता दातारः सत्यवादिनः निवसन्त्य् उत्कले पुण्ये यज्ञोत्सवविभूषिते
इतरे ऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः स्वकर्मनिरताः शान्तास् तत्र तिष्ठन्ति धार्मिकाः
कोणादित्य इति ख्यातस् तस्मिन् देशे व्यवस्थितः यं दृष्ट्वा भास्करं मर्त्यः सर्वपापैः प्रमुच्यते
श्रोतुम् इच्छाम तद् ब्रूहि क्षेत्रं सूर्यस्य सांप्रतम् तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः