विस्तारोच्छ्रयिणो रम्या विपुलाश् चित्रसानवः कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः
वातंधयो वैद्युतश् च मैनाकः सुरसस् तथा तुङ्गप्रस्थो नागगिरिर् गोधनः पाण्डराचलः
पुष्पगिरिर् वैजयन्तो रैवतो ऽर्बुद एव च ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः
श्रीपार्वतश् चकोरश् च शतशो ऽन्ये च पर्वताः तैर् विमिश्रा जनपदा म्लेच्छाद्याश् चैव भागशः
तैः पीयन्ते सरिच्छ्रेष्ठास् ता बुध्यध्वं द्विजोत्तमाः गङ्गा सरस्वती सिन्धुश् चन्द्रभागा तथापरा
यमुना शतद्रुर् विपाशा वितस्तैरावती कुहूः गोमती धूतपापा च बाहुदा च दृषद्वती
विपाशा देविका चक्षुर् निष्ठीवा गण्डकी तथा कौशिकी चापगा चैव हिमवत्पादनिःसृताः
देवस्मृतिर् देववती वातघ्नी सिन्धुर् एव च वेण्या तु चन्दना चैव सदानीरा मही तथा
चर्मण्वती वृषी चैव विदिशा वेदवत्य् अपि सिप्रा ह्य् अवन्ती च तथा पारियात्रानुगाः स्मृताः
शोणा महानदी चैव नर्मदा सुरथा क्रिया मन्दाकिनी दशार्णा च चित्रकूटा तथापरा
चित्रोत्पला वेत्रवती करमोदा पिशाचिका तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी
सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी
सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा वेणा वैतरणी चैव सिनीवाली कुमुद्वती
तोया चैव महागौरी दुर्गा चान्तःशिला तथा विन्ध्यपादप्रसूतास् ता नद्यः पुण्यजलाः शुभाः
गोदावरी भीमरथी कृष्णवेणा तथापगा तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी
सह्यपादविनिष्क्रान्ता इत्य् एताः सरितां वराः कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती
मलयाद्रिसमुद्भूताः पुण्याः शीतजलास् त्व् इमाः पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या
लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः सुविकाला कुमारी च मनूगा मन्दगामिनी
क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः
विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः
प्रावृट्कालवहाः सन्ति सदाकालवहाश् च याः मत्स्या मुकुटकुल्याश् च कुन्तलाः काशिकोशलाः
अन्ध्रकाश् च कलिङ्गाश् च शमकाश् च वृकैः सह मध्यदेशा जनपदाः प्रायशो ऽमी प्रकीर्तिताः
सह्यस्य चोत्तरे यस् तु यत्र गोदावरी नदी पृथिव्याम् अपि कृत्स्नायां स प्रदेशो मनोरमः
गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः वाहीकराटधानाश् च सुतीराः कालतोयदाः
अपरान्ताश् च शूद्राश् च वाह्लिकाश् च सकेरलाः गान्धारा यवनाश् चैव सिन्धुसौवीरमद्रकाः
शतद्रुहाः कलिङ्गाश् च पारदा हारभूषिकाः माठराश् चैव कनकाः कैकेया दम्भमालिकाः
क्षत्रियोपमदेशाश् च वैश्यशूद्रकुलानि च काम्बोजाश् चैव विप्रेन्द्रा बर्बराश् च सलौकिकाः
वीराश् चैव तुषाराश् च पह्लवाधायता नराः आत्रेयाश् च भरद्वाजाः पुष्कलाश् च दशेरकाः
लम्पकाः शुनशोकाश् च कुलिका जाङ्गलैः सह औषध्यश् चलचन्द्रा च किरातानां च जातयः
तोमरा हंसमार्गाश् च काश्मीराः करुणास् तथा शूलिकाः कुहकाश् चैव मागधाश् च तथैव च