मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते
नानापक्षिरुते रम्ये नानाप्रसवनाकुले नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते
नानावर्णशिलाकीर्णे नानाधातुविभूषिते नानामुनिजनाकीर्णे नानाश्रमसमन्विते
तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् जगत्पतिं जगद्वन्द्यं जगदाधारम् ईश्वरम्
देवदानवगन्धर्वैर् यक्षविद्याधरोरगैः मुनिसिद्धाप्सरोभिश् च वृतम् अन्यैर् दिवालयैः
केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे
एवं प्रमुदिते काले सर्वभूतसमागमे नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते
भृग्वाद्यास् तं तदा देवं प्रणिपत्य पितामहम् इमम् अर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः
भगवञ् श्रोतुम् इच्छामः कर्मभूमिं महीतले वक्तुम् अर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम्
तेषां वचनम् आकर्ण्य प्राह ब्रह्मा सुरेश्वरः पप्रच्छुस् ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः
शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि सांप्रतम् पुराणं वेदसंबद्धं भुक्तिमुक्तिप्रदं शुभम्
पृथिव्यां भारतं वर्षं कर्मभूमिर् उदाहृता कर्मणः फलभूमिश् च स्वर्गं च नरकं तथा
तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः अवश्यं फलम् आप्नोति अशुभस्य शुभस्य च
ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः
धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः
इन्द्राद्याश् च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे
अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः
ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ते ऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः
निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम्
यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम्
ततः स्वर्गश् च मोक्षश् च मध्यमं तच् च गम्यते न खल्व् अन्यत्र मर्त्यानां भूमौ कर्म विधीयते
तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद यदि ते ऽस्ति दयास्मासु यथावस्थितिर् एव च
तस्माद् वर्षम् इदं नाथ ये वास्मिन् वर्षपर्वताः भेदाश् च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः
शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः समुद्रान्तरिता ज्ञेयास् ते समाश् च परस्परम्
इन्द्रद्वीपः कशेरुश् च ताम्रवर्णो गभस्तिमान् नागद्वीपस् तथा सौम्यो गान्धर्वो वारुणस् तथा
अयं तु नवमस् तेषां द्वीपः सागरसंवृतः योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरः
पूर्वे किराता यस्यासन् पश्चिमे यवनास् तथा ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चान्ते स्थिता द्विजाः
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः तेषां संव्यवहारश् च एभिः कर्मभिर् इष्यते
स्वर्गापवर्गहेतुश् च पुण्यं पापं च वै तथा महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः
विन्ध्यश् च पारियात्रश् च सप्तैवात्र कुलाचलाः तेषां सहस्रशश् चान्ये भूधरा ये समीपगाः