मुने वेदांश् च शास्त्राणि पुराणागमभारतम् भूतं भव्यं भविष्यं च सर्वं जानासि वाङ्मयम्
कष्टे ऽस्मिन् दुःखबहुले निःसारे भवसागरे रागग्राहाकुले रौद्रे विषयोदकसंप्लवे
इन्द्रियावर्तकलिले दृष्टोर्मिशतसंकुले मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे
निमज्जज् जगद् आलोक्य निरालम्बम् अचेतनम् पृच्छामस् त्वां महाभागं ब्रूहि नो मुनिसत्तम
श्रेयः किम् अत्र संसारे भैरवे लोमहर्षणे उपदेशप्रदानेन लोकान् उद्धर्तुम् अर्हसि
दुर्लभं परमं क्षेत्रं वक्तुम् अर्हसि मोक्षदम् पृथिव्यां कर्मभूमिं च श्रोतुम् इच्छामहे वयम्
कृत्वा किल नरः सम्यक् कर्म भूमौ यथोदितम् प्राप्नोति परमां सिद्धिं नरकं च विकर्मतः
मोक्षक्षेत्रे तथा मोक्षं प्राप्नोति पुरुषः सुधीः तस्माद् ब्रूहि महाप्राज्ञ यत् पृष्टो ऽसि द्विजोत्तम
श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् व्यासः प्रोवाच भगवान् भूतभव्यभविष्यवित्
शृणुध्वं मुनयः सर्वे वक्ष्यामि यदि पृच्छथ यः संवादो ऽभवत् पूर्वम् ऋषीणां ब्रह्मणा सह
मेरुपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते
नानापक्षिरुते रम्ये नानाप्रसवनाकुले नानासत्त्वसमाकीर्णे नानाश्चर्यसमन्विते
नानावर्णशिलाकीर्णे नानाधातुविभूषिते नानामुनिजनाकीर्णे नानाश्रमसमन्विते
तत्रासीनं जगन्नाथं जगद्योनिं चतुर्मुखम् जगत्पतिं जगद्वन्द्यं जगदाधारम् ईश्वरम्
देवदानवगन्धर्वैर् यक्षविद्याधरोरगैः मुनिसिद्धाप्सरोभिश् च वृतम् अन्यैर् दिवालयैः
केचित् स्तुवन्ति तं देवं केचिद् गायन्ति चाग्रतः केचिद् वाद्यानि वाद्यन्ते केचिन् नृत्यन्ति चापरे
एवं प्रमुदिते काले सर्वभूतसमागमे नानाकुसुमगन्धाढ्ये दक्षिणानिलसेविते
भृग्वाद्यास् तं तदा देवं प्रणिपत्य पितामहम् इमम् अर्थम् ऋषिवराः पप्रच्छुः पितरं द्विजाः
भगवञ् श्रोतुम् इच्छामः कर्मभूमिं महीतले वक्तुम् अर्हसि देवेश मोक्षक्षेत्रं च दुर्लभम्
तेषां वचनम् आकर्ण्य प्राह ब्रह्मा सुरेश्वरः पप्रच्छुस् ते यथा प्रश्नं तत् सर्वं मुनिसत्तमाः
शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि सांप्रतम् पुराणं वेदसंबद्धं भुक्तिमुक्तिप्रदं शुभम्
पृथिव्यां भारतं वर्षं कर्मभूमिर् उदाहृता कर्मणः फलभूमिश् च स्वर्गं च नरकं तथा
तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः अवश्यं फलम् आप्नोति अशुभस्य शुभस्य च
ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः
धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः
इन्द्राद्याश् च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे
अन्ये ऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः
ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ते ऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः
निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम्
यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम्