कुमारधारा श्रीधारा गौरीशिखरम् एव च शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च
कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च
धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्
शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्
रामतीर्थं पितृवनं विरजातीर्थम् एव च मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम्
रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत् सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा
इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च
बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम् जातीह्रदं देवकूपं कुशप्रवणम् एव च
सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम्
तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः
स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य च क्रमात्
अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम् पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः
प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम् पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते
पृथिव्याम् उत्तमां भूमिं धर्मकामार्थमोक्षदाम् तीर्थानाम् उत्तमं तीर्थं ब्रूहि नो वदतां वर
इमं प्रश्नं मम गुरुं पप्रच्छुर् मुनयः पुरा तम् अहं संप्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः
स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते नानाद्रुमलताकीर्णे नानामृगगणैर् युते
पुंनागैः कर्णिकारैश् च सरलैर् देवदारुभिः शालैस् तालैस् तमालैश् च पनसैर् धवखादिरैः
पाटलाशोकबकुलैः करवीरैः सचम्पकैः अन्यैश् च विविधैर् वृक्षैर् नानापुष्पोपशोभितैः
कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् महाभारतकर्तारं सर्वशास्त्रविशारदम्
अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् पुराणागमवक्तारं वेदवेदाङ्गपारगम्
पराशरसुतं शान्तं पद्मपत्त्रायतेक्षणम् द्रष्टुम् अभ्याययुः प्रीत्या मुनयः संशितव्रताः
कश्यपो जमदग्निश् च भरद्वाजो ऽथ गौतमः वसिष्ठो जैमिनिर् धौम्यो मार्कण्डेयो ऽथ वाल्मिकिः
विश्वामित्रः शतानन्दो वात्स्यो गार्ग्यो ऽथ आसुरिः सुमन्तुर् भार्गवो नाम कण्वो मेधातिथिर् गुरुः
माण्डव्यश् च्यवनो धूम्रो ह्य् असितो देवलस् तथा मौद्गल्यस् तृणयज्ञश् च पिप्पलादो ऽकृतव्रणः
संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस् तथा शाण्डिल्यश् च विभाण्डश् च दुर्वासा लोमशस् तथा
नारदः पर्वतश् चैव वैशंपायनगालवौ भास्करिः पूरणः सूतः पुलस्त्यः कपिलस् तथा
उलूकः पुलहो वायुर् देवस्थानश् चतुर्भुजः सनत्कुमारः पैलश् च कृष्णः कृष्णानुभौतिकः
एतैर् मुनिवरैश् चान्यैर् वृतः सत्यवतीसुतः रराज स मुनिः श्रीमान् नक्षत्रैर् इव चन्द्रमाः
तान् आगतान् मुनीन् सर्वान् पूजयाम् आस वेदवित् ते ऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम्
कथान्ते ते मुनिश्रेष्ठाः कृष्णं सत्यवतीसुतम् पप्रच्छुः संशयं सर्वे तपोवननिवासिनः