सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा कुण्डं घर्घरिकायाश् च श्यामकूपं च चन्द्रिका
श्मशानस्तम्भकूपं च विनायकह्रदं तथा कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा
रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम्
ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी
दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम्
कपिलाह्रदं गृध्रवटं सावित्रीह्रदम् एव च प्रभासनं सीतवनं योनिद्वारं च धेनुकम्
धन्यकं कोकिलाख्यं च मतङ्गह्रदम् एव च पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम्
ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा
विश्वेश्वरं कल्पसरः कन्यासंवेत्यम् एव च निश्चीवा प्रभवश् चैव वसिष्ठाश्रमम् एव च
देवकूटं च कूपं च वसिष्ठाश्रमम् एव च वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली
कुमारधारा श्रीधारा गौरीशिखरम् एव च शुनः कुण्डो ऽथ तीर्थं च नन्दितीर्थं तथैव च
कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च
धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्
शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्
रामतीर्थं पितृवनं विरजातीर्थम् एव च मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम्
रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत् सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा
इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च
बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम् जातीह्रदं देवकूपं कुशप्रवणम् एव च
सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम्
तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः
स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य च क्रमात्
अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम् पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः
प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम् पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते
पृथिव्याम् उत्तमां भूमिं धर्मकामार्थमोक्षदाम् तीर्थानाम् उत्तमं तीर्थं ब्रूहि नो वदतां वर
इमं प्रश्नं मम गुरुं पप्रच्छुर् मुनयः पुरा तम् अहं संप्रवक्ष्यामि यत् पृच्छध्वं द्विजोत्तमाः
स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते नानाद्रुमलताकीर्णे नानामृगगणैर् युते
पुंनागैः कर्णिकारैश् च सरलैर् देवदारुभिः शालैस् तालैस् तमालैश् च पनसैर् धवखादिरैः
पाटलाशोकबकुलैः करवीरैः सचम्पकैः अन्यैश् च विविधैर् वृक्षैर् नानापुष्पोपशोभितैः
कुरुक्षेत्रे समासीनं व्यासं मतिमतां वरम् महाभारतकर्तारं सर्वशास्त्रविशारदम्
अध्यात्मनिष्ठं सर्वज्ञं सर्वभूतहिते रतम् पुराणागमवक्तारं वेदवेदाङ्गपारगम्