द्वीपं सारस्वतं चैव विजयं कामदं तथा रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम्
स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् सततं पृथिवीसर्वं पारिप्लवपृथूदकौ
दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम्
पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् बदरीवनम् आसीनं रत्नमूलकम् एव च
लोकद्वारं पञ्चतीर्थं कपिलातीर्थम् एव च सूर्यतीर्थं शङ्खिनी च गवां भवनम् एव च
तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा
स्नानलोमापहं चैव माससंसरकं तथा दशाश्वमेधं केदारं ब्रह्मोदुम्बरम् एव च
सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् ईटास्पदं कोटिकूटं किंदानं किंजपं तथा
कारण्डवं चावेध्यं च त्रिविष्टपम् अथापरम् पाणिषातं मिश्रकं च मधूवटमनोजवौ
कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा
अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम्
ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम्
सौगन्धिकवनं चैव मणितीर्थं सरस्वती ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम्
त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् शाकंभरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम्
क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतम् एव च
कुब्जाम्बकं भद्रवटं वसिष्ठपदम् एव च स्वर्गद्वारं प्रजाद्वारं कालिकाश्रमम् एव च
रुद्रावर्तं सुगन्धाश्वं कपिलावनम् एव च भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा
सप्तसारस्वतं चैव तीर्थम् औशनसं तथा कपालमोचनं चैव अवकीर्णं च काम्यकम्
चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् रेणुकं पञ्चवटकं विमोचनम् अथौजसम्
स्थाणुतीर्थं कुरोस् तीर्थं स्वर्गद्वारं कुशध्वजम् विश्वेश्वरं मानवकं कूपं नारायणाश्रयम्
गङ्गाह्रदं वटं चैव बदरीपाटनं तथा इन्द्रमार्गम् एकरात्रं क्षीरकावासम् एव च
सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा
अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा
वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा
महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम् बाहुतीर्थं चारुनदीं विमलाशोकम् एव च
तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा
सूर्यप्रभं सूर्यतीर्थम् अशोकवनम् एव च अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम्
पिशाचमोचनं चैव सुभद्राह्रदम् एव च कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च
ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा जैगीषव्यगुहा चैव हरिकेशवनं तथा
अजामुखसरं चैव घण्टाकर्णह्रदं तथा पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च