विवस्वान् सविता चैव मित्रो वरुण एव च अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसः
अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः
चाक्षुषस्यान्तरे पूर्वे ऋचो ब्रह्मर्षिसत्कृताः कृशाश्वस्य च देवर्षेर् देवप्रहरणाः स्मृताः
एते युगसहस्रान्ते जायन्ते पुनर् एव हि सर्वे देवगणाश् चात्र त्रयस्त्रिंशत् तु कामजाः
तेषाम् अपि च भो विप्रा निरोधोत्पत्तिर् उच्यते यथा सूर्यस्य गगन उदयास्तमयाव् इह
एवं देवनिकायास् ते संभवन्ति युगे युगे दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम्
हिरण्यकशिपुश् चैव हिरण्याक्षश् च वीर्यवान् सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः
सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः
ह्रादश् च अनुह्रादश् च प्रह्रादश् चैव वीर्यवान् संह्रादश् च चतुर्थो ऽभूद् ध्रादपुत्रो ह्रदस् तथा
ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस् तथैव च विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात्
बलेः पुत्रशतम् आसीद् बाणज्येष्ठं तपोधनाः धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चन्द्रतापनः
कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एवमादयः बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः
पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् पार्श्वतो विहरिष्यामि इत्य् एवं याचितो वरः
हिरण्याक्षसुताश् चैव विद्वांसश् च महाबलाः भर्भरः शकुनिश् चैव भूतसंतापनस् तथा
महानाभश् च विक्रान्तः कालनाभस् तथैव च अभवन् दनुपुत्राश् च शतं तीव्रपराक्रमाः
तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् द्विमूर्धा शङ्कुकर्णश् च तथा हयशिरा विभुः
अयोमुखः शम्बरश् च कपिलो वामनस् तथा मारीचिर् मघवांश् चैव इल्वलः स्वसृमस् तथा
विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ इन्द्रजित् सर्वजिच् चैव वज्रनाभस् तथैव च
एकचक्रो महाबाहुस् तारकश् च महाबलः वैश्वानरः पुलोमा च विद्रावणमहाशिराः
स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान् सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे
विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः एतेषां पुत्रपौत्रं तु न तच् छक्यं द्विजोत्तमाः
प्रसंख्यातुं बहुत्वाच् च पुत्रपौत्रम् अनन्तकम् स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता
उपदीप्तिर् हयशिराः शर्मिष्ठा वार्षपर्वणी पुलोमा कालिका चैव वैश्वानरसुते उभे
बह्वपत्ये महापत्ये मरीचेस् तु परिग्रहः तयोः पुत्रसहस्राणि षष्टिर् दानवनन्दनाः
चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः मरीचिर् जनयाम् आस महता तपसान्वितः
पौलोमाः कालकेयाश् च दानवास् ते महाबलाः अवध्या देवतानां हि हिरण्यपुरवासिनः
पितामहप्रसादेन ये हताः सव्यसाचिना ततो ऽपरे महावीर्या दानवास् त्व् अतिदारुणाः
सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः
सैंहिकेया इति ख्यातास् त्रयोदश महाबलाः वंश्यः शल्यश् च बलिनौ नलश् चैव तथा बलः