तेन वृद्धिं परां नीतः सकलश् चौषधीगणः साधकः फलपाकान्तः प्रजानां तु प्रजायते
तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः कुर्वते ऽहरहश् चैव देवान् आप्याययन्ति ते
एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः सर्वदेवनिकायाश् च पशुभूतगणाश् च ये
वृष्ट्या धृतम् इदं सर्वं जगत् स्थावरजङ्गमम् सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः
आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तमाः ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः
हृदि नारायणस् तस्य शिशुमारस्य संस्थितः विभर्ता सर्वभूतानाम् आदिभूतः सनातनः
एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् भूसमुद्रादिभिर् युक्तं किम् अन्यच् छ्रोतुम् इच्छथ
पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते
मनो विशुद्धं पुरुषस्य तीर्थं वाचां तथा चेन्द्रियनिग्रहश् च एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिबोधयन्ति
चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम्
इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा
तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च
पुण्यं च मगधारण्यं दण्डकारण्यम् एव च गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् लोहाकुलं सकेदारं मन्दरारण्यम् एव च
महाबलं कोटितीर्थं सर्वपापहरं तथा रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च
सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा
धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च
चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च
तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा
चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम् मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी
लोकपालं मनुवरं सोमाह्वशैलम् एव च सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्
महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् सप्तधारैकधारं च तीर्थं चामरकण्टकम्
शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम् बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा
शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा अग्निप्रभं च पुंनागं देवप्रभम् अनुत्तमम्
विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा