जलैर् विक्षिप्यते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः
अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः संस्कारं कालजनितं विप्राश् चासाद्य निर्मलाः
सरित्समुद्रा भौमास् तु तथापः प्राणिसंभवाः चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः
आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमाः न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम्
दृष्टसूर्यं हि तद् वारि पतत्य् अभ्रैर् विना दिवः आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः
कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम्
युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोद्गितं दिवः तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते
उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विजाः आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः
यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत्
तेन वृद्धिं परां नीतः सकलश् चौषधीगणः साधकः फलपाकान्तः प्रजानां तु प्रजायते
तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः कुर्वते ऽहरहश् चैव देवान् आप्याययन्ति ते
एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः सर्वदेवनिकायाश् च पशुभूतगणाश् च ये
वृष्ट्या धृतम् इदं सर्वं जगत् स्थावरजङ्गमम् सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः
आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तमाः ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः
हृदि नारायणस् तस्य शिशुमारस्य संस्थितः विभर्ता सर्वभूतानाम् आदिभूतः सनातनः
एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् भूसमुद्रादिभिर् युक्तं किम् अन्यच् छ्रोतुम् इच्छथ
पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते
मनो विशुद्धं पुरुषस्य तीर्थं वाचां तथा चेन्द्रियनिग्रहश् च एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिबोधयन्ति
चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम्
इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा
तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च
पुण्यं च मगधारण्यं दण्डकारण्यम् एव च गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् लोहाकुलं सकेदारं मन्दरारण्यम् एव च
महाबलं कोटितीर्थं सर्वपापहरं तथा रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च