वह्निस् तु वायुना वायुर् विप्रास् तु नभसावृतः आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः
दशोत्तराण्य् अशेषाणि विप्राश् चैतानि सप्त वै महान्तं च समावृत्य प्रधानं समवस्थितम्
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते तद् अनन्तम् असंख्यातं प्रमाणेनापि वै यतः
हेतुभूतम् अशेषस्य प्रकृतिः सा परा द्विजाः अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च
ईदृशानां तथा तत्र कोटिकोटिशतानि च दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् इह
प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः प्रधानं च पुमांश् चैव सर्वभूतानुभूतया
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ तयोः सैव पृथग्भावे कारणं संश्रयस्य च
क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः यथा शैत्यं जले वातो बिभर्ति कणिकागतम्
जगच् छक्तिस् तथा विष्णोः प्रधानपुरुषात्मकम् यथा च पादपो मूलस्कन्धशाखादिसंयुतः
आद्यबीजात् प्रभवति बीजान्य् अन्यानि वै ततः प्रभवन्ति ततस् तेभ्यो भवन्त्य् अन्ये परे द्रुमाः
ते ऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः
विशेषान्तास् ततस् तेभ्यः संभवन्ति सुरादयः तेभ्यश् च पुत्रास् तेषां तु पुत्राणां परमे सुताः
बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा
संनिधानाद् यथाकाशकालाद्याः कारणं तरोः तथैवापरिणामेन विश्वस्य भगवान् हरिः
व्रीहिबीजे यथा मूलं नालं पत्त्राङ्कुरौ तथा काण्डकोषास् तथा पुष्पं क्षीरं तद्वच् च तण्डुलः
तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः प्ररोहहेतुसामग्र्यम् आसाद्य मुनिसत्तमाः
तथा कर्मस्व् अनेकेषु देवाद्यास् तनवः स्थिताः विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै
स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत् जगच् च यो यत्र चेदं यस्मिन् विलयम् एष्यति
तद् ब्रह्म परमं धाम सदसत् परमं पदम् यस्य सर्वम् अभेदेन जगद् एतच् चराचरम्
स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति
कर्ता क्रियाणां स च इज्यते क्रतुः स एव तत्कर्मफलं च तस्य यत् युगादि यस्माच् च भवेद् अशेषतो हरेर् न किंचिद् व्यतिरिक्तम् अस्ति तत्
तारामयं भगवतः शिशुमाराकृति प्रभोः दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः
सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत्
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै
शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि नारायणः परं धाम तस्याधारः स्वयं हृदि
उत्तानपादतनयस् तम् आराध्य प्रजापतिम् स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः
तद् आधारं जगच् चेदं सदेवासुरमानुषम् येन विप्रा विधानेन तन् मे शृणुत सांप्रतम्
विवस्वान् अष्टभिर् मासैर् ग्रसत्य् अपो रसात्मिकाः वर्षत्य् अम्बु ततश् चान्नम् अन्नादम् अखिलं जगत्
विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम् सोमं पुष्यत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि