यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला नभस् तावत्प्रमाणं हि विस्तारपरिमण्डलम्
भूमेर् योजनलक्षे तु सौरं विप्रास् तु मण्डलम् लक्षे दिवाकराच् चापि मण्डलं शशिनः स्थितम्
पूर्णे शतसहस्रे तु योजनानां निशाकरात् नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः
अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः
सौरिर् बृहस्पतेर् ऊर्ध्वं द्विलक्षे समवस्थितः सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तमाः
ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः मेढीभूतः समस्तस्य ज्योतिश् चक्रस्य वै ध्रुवः
त्रैलोक्यम् एतत् कथितं संक्षेपेण द्विजोत्तमाः इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता
ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः एकयोजनकोटी तु महर्लोको विधीयते
द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः सनन्दनाद्याः कथिता विप्राश् चामलचेतसः
चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः
षड्गुणेन तपोलोकात् सत्यलोको विराजते अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्
पादगम्यं तु यत् किंचिद् वस्त्व् अस्ति पृथिवीमयम् स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः
भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तमाः
ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः
त्रैलोक्यम् एतत् कृतकं विप्रैश् च परिपठ्यते जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम्
कृतकाकृतको मध्ये महर्लोक इति स्मृतः शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति
एते सप्त महालोका मया वः कथिता द्विजाः पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः
एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वम् अधस् तथा कपित्थस्य यथा बीजं सर्वतो वै समावृतम्
दशोत्तरेण पयसा द्विजाश् चाण्डं च तद् वृतम् स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः
वह्निस् तु वायुना वायुर् विप्रास् तु नभसावृतः आकाशो ऽपि मुनिश्रेष्ठा महता परिवेष्टितः
दशोत्तराण्य् अशेषाणि विप्राश् चैतानि सप्त वै महान्तं च समावृत्य प्रधानं समवस्थितम्
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते तद् अनन्तम् असंख्यातं प्रमाणेनापि वै यतः
हेतुभूतम् अशेषस्य प्रकृतिः सा परा द्विजाः अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च
ईदृशानां तथा तत्र कोटिकोटिशतानि च दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् इह
प्रधाने ऽवस्थितो व्यापी चेतनात्मनिवेदनः प्रधानं च पुमांश् चैव सर्वभूतानुभूतया
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ तयोः सैव पृथग्भावे कारणं संश्रयस्य च
क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः यथा शैत्यं जले वातो बिभर्ति कणिकागतम्
जगच् छक्तिस् तथा विष्णोः प्रधानपुरुषात्मकम् यथा च पादपो मूलस्कन्धशाखादिसंयुतः
आद्यबीजात् प्रभवति बीजान्य् अन्यानि वै ततः प्रभवन्ति ततस् तेभ्यो भवन्त्य् अन्ये परे द्रुमाः