मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः
वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योदयाय च कोपाय च यतस् तस्माद् वस्तु दुःखात्मकं कुतः
तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते तद् एव कोपालयतः प्रसादाय च जायते
तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् मनसः परिणामो ऽयं सुखदुःखादिलक्षणः
ज्ञानम् एव परं ब्रह्माज्ञानं बन्धाय चेष्यते ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम्
विद्याविद्ये हि भो विप्रा ज्ञानम् एवावधार्यताम् एवम् एतद् मयाख्यातं भवतां मण्डलं भुवः
पातालानि च सर्वाणि तथैव नरका द्विजाः समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः संक्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ
कथितं भवता सर्वम् अस्माकं सकलं तथा भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छामहे वयम्
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा समाचक्ष्व महाभाग यथावल् लोमहर्षण
रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते ससमुद्रसरिच्छैला तावती पृथिवी स्मृता
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला नभस् तावत्प्रमाणं हि विस्तारपरिमण्डलम्
भूमेर् योजनलक्षे तु सौरं विप्रास् तु मण्डलम् लक्षे दिवाकराच् चापि मण्डलं शशिनः स्थितम्
पूर्णे शतसहस्रे तु योजनानां निशाकरात् नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः
अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः
सौरिर् बृहस्पतेर् ऊर्ध्वं द्विलक्षे समवस्थितः सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तमाः
ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः मेढीभूतः समस्तस्य ज्योतिश् चक्रस्य वै ध्रुवः
त्रैलोक्यम् एतत् कथितं संक्षेपेण द्विजोत्तमाः इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता
ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः एकयोजनकोटी तु महर्लोको विधीयते
द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः सनन्दनाद्याः कथिता विप्राश् चामलचेतसः
चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः
षड्गुणेन तपोलोकात् सत्यलोको विराजते अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्
पादगम्यं तु यत् किंचिद् वस्त्व् अस्ति पृथिवीमयम् स भूर्लोकः समाख्यातो विस्तारो ऽस्य मयोदितः
भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तमाः
ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश स्वर्लोकः सो ऽपि कथितो लोकसंस्थानचिन्तकैः
त्रैलोक्यम् एतत् कृतकं विप्रैश् च परिपठ्यते जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम्
कृतकाकृतको मध्ये महर्लोक इति स्मृतः शून्यो भवति कल्पान्ते यो ऽन्तं न च विनश्यति
एते सप्त महालोका मया वः कथिता द्विजाः पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः
एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वम् अधस् तथा कपित्थस्य यथा बीजं सर्वतो वै समावृतम्
दशोत्तरेण पयसा द्विजाश् चाण्डं च तद् वृतम् स चाम्बुपरिवारो ऽसौ वह्निना वेष्टितो बहिः