चौरो विमोहे पतति मर्यादादूषकस् तथा देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः
लालाभक्ष्ये स यात्य् उग्रे शरकर्ता च वेधके करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः
प्रयान्त्य् एते विशसने नरके भृशदारुणे असत्प्रतिग्रहीता च नरके यात्य् अधोमुखे
अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः कृमिपूये नरश् चैको याति मिष्टान्नभुक् सदा
लाक्षामांसरसानां च तिलानां लवणस्य च विक्रेता ब्राह्मणो याति तम् एव नरकं द्विजाः
मार्जारकुक्कुटच्छागश्ववराहविहंगमान् पोषयन् नरकं याति तम् एव द्विजसत्तमाः
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा सूची माहिषिकश् चैव पर्वगामी च यो द्विजः
अगारदाही मित्रघ्नः शकुनिग्रामयाजकः रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये
मधुहा ग्रामहन्ता च याति वैतरणीं नरः रेतःपानादिकर्तारो मर्यादाभेदिनश् च ये
ते कृच्छ्रे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये असिपत्त्रवनं याति वनच्छेदी वृथैव यः
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै यान्ति तत्रैव ते विप्रा यश् चापाकेषु वह्निदः
व्रतोपलोपको यश् च स्वाश्रमाद् विच्युतश् च यः संदंशयातनामध्ये पततस् ताव् उभाव् अपि
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः पुत्रैर् अध्यापिता ये तु ते पतन्ति श्वभोजने
एते चान्ये च नरकाः शतशो ऽथ सहस्रशः येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः
तथैव पापान्य् एतानि तथान्यानि सहस्रशः भुज्यन्ते जातिपुरुषैर् नरकान्तरगोचरैः
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः कर्मणा मनसा वाचा निरयेषु पतन्ति ते
अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान्
स्थावराः कृमयो ऽज्वाश् च पक्षिणः पशवो नराः धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम्
सहस्रभागः प्रथमाद् द्वितीयो ऽनुक्रमात् तथा सर्वे ह्य् एते महाभागा यावन् मुक्तिसमाश्रयाः
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः
पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः
पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायंभुवादयः
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्
प्रातर् निशि तथा संध्यामध्याह्नादिषु संस्मरन् नारायणम् अवाप्नोति सद्यः पापक्षयान् नरः
विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसंचयः मुक्तिं प्रयाति भो विप्रा विष्णोस् तस्यानुकीर्तनात्
वासुदेवे मनो यस्य जपहोमार्चनादिषु तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वादिकं फलम्
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम्
तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो द्विजः न याति नरकं शुद्धः संक्षीणाखिलपातकः