तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः सदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च
श्वभोजनो ऽथाप्रतिष्ठोमआवीचिश् च तथापरः इत्य् एवमादयश् चान्ये नरका भृशदारुणाः
यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः पतन्ति येषु पुरुषाः पापकर्मरताश् च ये
कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम्
भ्रूणहा पुरहन्ता च गोघ्नश् च मुनिसत्तमाः यान्ति ते रौरवं घोरं यश् चोच्छ्वासनिरोधकः
सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे प्रयाति नरके यश् च तैः संसर्गम् उपैति वै
राजन्यवैश्यहा चैव तथैव गुरुतल्पगः तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः
माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत्
सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः
वेददूषयिता यश् च वेदविक्रयकश् च यः अगम्यगामी यश् च स्यात् ते यान्ति शबलं द्विजाः
चौरो विमोहे पतति मर्यादादूषकस् तथा देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः
लालाभक्ष्ये स यात्य् उग्रे शरकर्ता च वेधके करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः
प्रयान्त्य् एते विशसने नरके भृशदारुणे असत्प्रतिग्रहीता च नरके यात्य् अधोमुखे
अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः कृमिपूये नरश् चैको याति मिष्टान्नभुक् सदा
लाक्षामांसरसानां च तिलानां लवणस्य च विक्रेता ब्राह्मणो याति तम् एव नरकं द्विजाः
मार्जारकुक्कुटच्छागश्ववराहविहंगमान् पोषयन् नरकं याति तम् एव द्विजसत्तमाः
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा सूची माहिषिकश् चैव पर्वगामी च यो द्विजः
अगारदाही मित्रघ्नः शकुनिग्रामयाजकः रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये
मधुहा ग्रामहन्ता च याति वैतरणीं नरः रेतःपानादिकर्तारो मर्यादाभेदिनश् च ये
ते कृच्छ्रे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये असिपत्त्रवनं याति वनच्छेदी वृथैव यः
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै यान्ति तत्रैव ते विप्रा यश् चापाकेषु वह्निदः
व्रतोपलोपको यश् च स्वाश्रमाद् विच्युतश् च यः संदंशयातनामध्ये पततस् ताव् उभाव् अपि
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः पुत्रैर् अध्यापिता ये तु ते पतन्ति श्वभोजने
एते चान्ये च नरकाः शतशो ऽथ सहस्रशः येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः
तथैव पापान्य् एतानि तथान्यानि सहस्रशः भुज्यन्ते जातिपुरुषैर् नरकान्तरगोचरैः
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः कर्मणा मनसा वाचा निरयेषु पतन्ति ते
अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान्
स्थावराः कृमयो ऽज्वाश् च पक्षिणः पशवो नराः धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम्
सहस्रभागः प्रथमाद् द्वितीयो ऽनुक्रमात् तथा सर्वे ह्य् एते महाभागा यावन् मुक्तिसमाश्रयाः