विस्तार एष कथितः पृथिव्या मुनिसत्तमाः सप्ततिस् तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते
दशसाहस्रम् एकैकं पातालं मुनिसत्तमाः अतलं वितलं चैव नितलं सुतलं तथा
तलातलं रसातलं पातालं चापि सप्तमम् कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः तेषु दानवदैतेयजातयः शतशः स्थिताः
नागानां च महाङ्गानां ज्ञातयश् च द्विजोत्तमाः स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
नागाभरणभूषाश् च पातालं केन तत्समम् दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते
पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते दिवार्करश्मयो यत्र प्रभास् तन्वन्ति नातपम्
शशिनश् च न शीताय निशि द्योताय केवलम् भक्ष्यभोज्यमहापानमदमत्तैश् च भोगिभिः
यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः वनानि नद्यो रम्याणि सरांसि कमलाकराः
पुंस्कोकिलादिलापाश् च मनोज्ञान्य् अम्बराणि च भूषणान्य् अतिरम्याणि गन्धाद्यं चानुलेपनम्
वीणावेणुमृदङ्गानां निःस्वनाश् च सदा द्विजाः एतान्य् अन्यानि रम्याणि भाग्यभोग्यानि दानवैः
दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः यो ऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः फणामणिसहस्रेण यः स विद्योतयन् दिशः
सर्वान् करोति निर्वीर्यान् हिताय जगतो ऽसुरान् मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः
किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः
साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिर् इवोत्तमः लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलम् उत्तमम्
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् स बिभ्रच्छिखरीभूतम् अशेषं क्षितिमण्डलम्
आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च
नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि यस्यैषा सकला पृथ्वी फणामणिशिखारुणा
आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः
तदा चलति भूर् एषा साद्रितोयाधिकानना गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः
नान्तं गुणानां गच्छन्ति ततो ऽनन्तो ऽयम् अव्ययः यस्य नागवधूहस्तैर् लापितं हरिचन्दनम्
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः
ज्ञातवान् सकलं चैव निमित्तपठितं फलम् तेनेयं नागवर्येण शिरसा विधृता मही बिभर्ति सकलांल् लोकान् सदेवासुरमानुषान्
ततश् चानन्तरं विप्रा नरका रौरवादयः पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः
रौरवः शौकरो रोधस् तानो विशसनस् तथा महाज्वालस् तप्तकुड्यो महालोभो विमोहनः
रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः असिपत्त्रवनं कृष्णो लालाभक्षश् च दारुणः