वलयाकारम् एकैकं तयोर् मध्ये महागिरिः दशवर्षसहस्राणि तत्र जीवन्ति मानवाः
निरामया विशोकाश् च रागद्वेषविवर्जिताः अधमोत्तमौ न तेष्व् आस्तांन वध्यवधकौ द्विजाः
नेर्ष्यासूया भयं रोषो दोषो लोभादिकं न च महावीतं बहिर् वर्षं धातकीखण्डम् अन्ततः
मानसोत्तरशैलस्य देवदैत्यादिसेवितम् सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते तुल्यवेषास् तु मनुजा देवैस् तत्रैकरूपिणः
वर्णाश्रमाचारहीनं धर्माहरणवर्जितम् त्रयीवार्त्तादण्डनीतिशुश्रूषारहितं च तत्
वर्षद्वयं ततो विप्रा भौमस्वर्गो ऽयम् उत्तमः सर्वस्य सुखदः कालो जरारोगविवर्जितः
पुष्करे धातकीखण्डे महावीते च वै द्विजाः न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम्
तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः स्वादूदकेनोदधिना पुष्करः परिवेष्टितः
समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा एवं द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः
द्वीपश् चैव समुद्रश् च समानौ द्विगुणौ परौ पयांसि सर्वदा सर्वसमुद्रेषु समानि वै
न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते स्थालीस्थम् अग्निसंयोगाद् उद्रेकि सलिलं यथा
तथेन्दुवृद्धौ सलिलम् अम्भोधौ मुनिसत्तमाः अन्यूनानतिरिक्ताश् च वर्धन्त्य् आपो ह्रसन्ति च
उदयास्तमने त्व् इन्दोः पक्षयोः शुक्लकृष्णयोः दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां द्विजोत्तमाः भोजनं पुष्करद्वीपे तत्र स्वयम् उपस्थितम्
भुञ्जन्ति षड्रसं विप्राः प्रजाः सर्वाः सदैव हि स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता लोकालोकस् ततः शैलो योजनायुतविस्तृतः
उच्छ्रयेणापि तावन्ति सहस्राण्य् आवलोहि सः ततस् तमः समावृत्य तं शैलं सर्वतः स्थितम्
तमश् चाण्डकटाहेन समन्तात् परिवेष्टितम् पञ्चाशत्कोटिविस्तारा सेयम् उर्वी द्विजोत्तमाः
सहैवाण्डकटाहेन सद्वीपा समहीधरा सेयं धात्री विधात्री च सर्वभूतगुणाधिका आधारभूता जगतां सर्वेषां सा द्विजोत्तमाः
विस्तार एष कथितः पृथिव्या मुनिसत्तमाः सप्ततिस् तु सहस्राणि तदुच्छ्रायो ऽपि कथ्यते
दशसाहस्रम् एकैकं पातालं मुनिसत्तमाः अतलं वितलं चैव नितलं सुतलं तथा
तलातलं रसातलं पातालं चापि सप्तमम् कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः तेषु दानवदैतेयजातयः शतशः स्थिताः
नागानां च महाङ्गानां ज्ञातयश् च द्विजोत्तमाः स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
नागाभरणभूषाश् च पातालं केन तत्समम् दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते
पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते दिवार्करश्मयो यत्र प्रभास् तन्वन्ति नातपम्
शशिनश् च न शीताय निशि द्योताय केवलम् भक्ष्यभोज्यमहापानमदमत्तैश् च भोगिभिः
यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः वनानि नद्यो रम्याणि सरांसि कमलाकराः