वर्षाचला मुनिश्रेष्ठास् तेषां नामानि भो द्विजाः क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः
देवव्रतो धमश् चैव तथान्यः पुण्डरीकवान् दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम्
द्वीपाद् द्वीपेषु ये शैलास् तथा द्वीपानि ते तथा वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च
निवसन्ति निरातङ्काः सह देवगणैः प्रजाः पुष्कला पुष्करा धन्यास् ते ख्याताश् च द्विजोत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा
सप्त प्रधानाः शतशस् तथान्याः क्षुद्रनिम्नगाः गौरी कुमुद्वती चैव संध्या रात्रिर् मनोजवा
ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः तत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः
ध्यानयोगै रुद्ररूप ईज्यते यज्ञसंनिधौ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु
आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः
क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः
सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः जलदश् च कुमारश् च सुकुमारो मनीरकः
कुसमोदश् च मोदाकिः सप्तमश् च महाद्रुमः तत्संज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात्
तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः
तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विजाः आस्तिकेयस् तथा रम्यः केसरी पर्वतोत्तमः
शाकश् चात्र महावृक्षः सिद्धगन्धर्वसेवितः यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः
तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः निवसन्ति महात्मानो निरातङ्का निरामयाः
नद्यश् चात्र महापुण्याः सर्वपापभयापहाः सुकुमारी कुमारी च नलिनी रेणुका च या
इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो द्विजोत्तमाः
महीधरास् तथा सन्ति शतशो ऽथ सहस्रशः ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः
वर्षेषु ये जनपदाश् चतुर्थार्थसमन्विताः नद्यश् चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम्
धर्महानिर् न तेष्व् अस्ति न संहर्षो न शुक् तथा मर्यादाव्युत्क्रमश् चापि तेषु देशेषु सप्तसु
मगाश् च मागधाश् चैव मानसा मन्दगास् तथा मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास् तु ते
वैश्यास् तु मानसास् तेषां शूद्रा ज्ञेयास् तु मन्दगाः शाकद्वीपे स्थितैर् विष्णुः सूर्यरूपधरो हरिः
यथोक्तैर् इज्यते सम्यक् कर्मभिर् नियतात्मभिः शाकद्वीपस् ततो विप्राः क्षीरोदेन समन्ततः
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः क्षीराब्धिः सर्वतो विप्राः पुष्कराख्येन वेष्टितः
द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः पुष्करे सवनस्यापि महावीतो ऽभवत् सुतः
धातकिश् च तयोस् तद्वद् द्वे वर्षे नामसंज्ञिते महावीतं तथैवान्यद् धातकीखण्डसंज्ञितम्
एकश् चात्र महाभागाः प्रख्यातो वर्षपर्वतः मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः
पुष्करद्वीपवलयं मध्येन विभजन्न् इव स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं हि तत्