यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम्
यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् विद्रुमो हेमशैलश् च द्युतिमान् पुष्टिमांस् तथा
कुशेशयो हरिश् चैव सप्तमो मन्दराचलः वर्षाचलास् तु सप्तैते द्वीपे तत्र द्विजोत्तमाः
नद्यश् च सप्त तासां तु वक्ष्ये नामान्य् अनुक्रमात् धूतपापा शिवा चैव पवित्रा संमतिस् तथा
विद्युद् अम्भो मही चान्या सर्वपापहरास् त्व् इमाः अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः
घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान्
कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः
तन्नामानि च वर्षाणि तेषां चक्रे महामनाः कुशगो मन्दगश् चोष्णः पीवरो ऽथान्धकारकः
मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता द्विजाः तत्रापि देवगन्धर्वसेविताः सुमनोरमाः
वर्षाचला मुनिश्रेष्ठास् तेषां नामानि भो द्विजाः क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः
देवव्रतो धमश् चैव तथान्यः पुण्डरीकवान् दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम्
द्वीपाद् द्वीपेषु ये शैलास् तथा द्वीपानि ते तथा वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च
निवसन्ति निरातङ्काः सह देवगणैः प्रजाः पुष्कला पुष्करा धन्यास् ते ख्याताश् च द्विजोत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः तत्र नद्यो मुनिश्रेष्ठा याः पिबन्ति तु ते सदा
सप्त प्रधानाः शतशस् तथान्याः क्षुद्रनिम्नगाः गौरी कुमुद्वती चैव संध्या रात्रिर् मनोजवा
ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः तत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः
ध्यानयोगै रुद्ररूप ईज्यते यज्ञसंनिधौ क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु
आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः
क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः
सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः जलदश् च कुमारश् च सुकुमारो मनीरकः
कुसमोदश् च मोदाकिः सप्तमश् च महाद्रुमः तत्संज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात्
तत्रापि पर्वताः सप्त वर्षविच्छेदकारकाः पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः
तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विजाः आस्तिकेयस् तथा रम्यः केसरी पर्वतोत्तमः
शाकश् चात्र महावृक्षः सिद्धगन्धर्वसेवितः यत्पत्त्रवातसंस्पर्शाद् आह्लादो जायते परः
तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः निवसन्ति महात्मानो निरातङ्का निरामयाः
नद्यश् चात्र महापुण्याः सर्वपापभयापहाः सुकुमारी कुमारी च नलिनी रेणुका च या
इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो द्विजोत्तमाः
महीधरास् तथा सन्ति शतशो ऽथ सहस्रशः ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः
वर्षेषु ये जनपदाश् चतुर्थार्थसमन्विताः नद्यश् चात्र महापुण्याः स्वर्गाद् अभ्येत्य मेदिनीम्