ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यवस्थिताः
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने
नर्मदासुरमाद्याश् च नद्यो विन्ध्यविनिःसृताः तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः
ऋक्षपादोद्भवा ह्य् एताः श्रुताः पापं हरन्ति याः गोदावरीभीमरथीकृष्णवेण्यादिकास् तथा
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः
त्रिसांध्यर्षिकुल्याद्यामहेन्द्रप्रभवाः स्मृताः ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसंभवाः
आसां नद्युपनद्यश् च सन्त्य् अन्यास् तु सहस्रशः तास्व् इमे कुरुपञ्चालमध्यदेशादयो जनाः
पूर्वदेशादिकाश् चैव कामरूपनिवासिनः पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश् च सर्वशः
तथा परान्त्याः सौराष्ट्राः शूद्राभीरास् तथार्बुदाः मारुका मालवाश् चैव पारियात्रनिवासिनः
सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः मद्रारामास् तथाम्बष्ठाः पारसीकादयस् तथा
आसां पिबन्ति सलिलं वसन्ति सरितां सदा समोपेता महाभाग हृष्टपुष्टजनाकुलाः
वसन्ति भारते वर्षे युगान्य् अत्र महामुने कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित्
तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः दानानि चात्र दीयन्ते परलोकार्थम् आदरात्
पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने यतो हि कर्मभूर् एषा यतो ऽन्या भोगभूमयः
अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसंचयन्
गायन्ति देवाः किल गीतकानि धन्यास् तु ये भारतभूमिभागे स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषा मनुष्याः
कर्माण्य् असंकल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे अवाप्य तां कर्ममहीम् अनन्ते तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति
जानीम नो तत्कूवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् प्राप्स्यन्ति धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविप्रहीनाः
नववर्षं च भो विप्रा जम्बूद्वीपम् इदं मया लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः भो द्विजा वलयाकारः स्थितः क्षीरोदधिर् बहिः
क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः संवेष्ट्य क्षारम् उदधिं प्लक्षद्वीपस् तथा स्थितः
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः स एव द्विगुणो विप्राः प्लक्षद्वीपे ऽप्य् उदाहृतः
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै श्रेष्ठः शान्तभयो नाम शिशिरस् तदनन्तरम्
सुखोदयस् तथानन्दः शिवः क्षेमक एव च ध्रुवश् च सप्तमस् तेषां प्लक्षद्वीपेश्वरा हि ते
पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा आनन्दं च शिवं चैव क्षेमकं ध्रुवम् एव च
मर्यादाकारकास् तेषां तथान्ये वर्षपर्वताः सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः
गोमेदश् चैव चन्द्रश् च नारदो दन्दुभिस् तथा सोमकः सुमनाः शैलो वैभ्राजश् चैव सप्तमः
वर्षाचलेषु रम्येषु वर्षेष्व् एतेषु चानघाः वसन्ति देवगन्धर्वसहिताः सहितं प्रजाः
तेषु पुण्या जनपदा वीरा न म्रियते जनः नाधयो व्याधयो वापि सर्वकालसुखं हि तत्