दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः नैतेषु भौमान्य् अन्यानि क्षुत्पिपासादि नो द्विजाः
कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना सर्वेष्व् एतेषु वर्षेषु सप्त सप्त कुलाचलाः नद्यश् च शतशस् तेभ्यः प्रसूता या द्विजोत्तमाः
उत्तरेण समुद्रस्य हिमाद्रेश् चैव दक्षिणे वर्षं तद् भारतं नाम भारती यत्र संततिः
नवयोजनसाहस्रो विस्तारश् च द्विजोत्तमाः कर्मभूमिर् इयं स्वर्गम् अपवर्गं च पृच्छताम्
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः विन्ध्यश् च पारियात्रश् च सप्तात्र कुलपर्वताः
अतः संप्राप्यते स्वर्गो मुक्तिम् अस्मात् प्रयाति वै तिर्यक्त्वं नरकं चापि यान्त्य् अतः पुरुषा द्विजाः
इतः स्वर्गश् च मोक्षश् च मध्यं चान्ते च गच्छति न खल्व् अन्यत्र मर्त्यानां कर्म भूमौ विधीयते
भारतस्यास्य वर्षस्य नव भेदान् निशामय इन्द्रद्वीपः कसेतुमांस् ताम्रपर्णो गभस्तिमान्
नागद्वीपस् तथा सौम्यो गन्धर्वस् त्व् अथ वारुणः अयं तु नवमस् तेषां द्वीपः सागरसंवृतः
योजनानां सहस्रं च द्वीपो ऽयं दक्षिणोत्तरात् पूर्वे किरातास् तिष्ठन्ति पश्चिमे यवनाः स्थिताः
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यवस्थिताः
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने
नर्मदासुरमाद्याश् च नद्यो विन्ध्यविनिःसृताः तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः
ऋक्षपादोद्भवा ह्य् एताः श्रुताः पापं हरन्ति याः गोदावरीभीमरथीकृष्णवेण्यादिकास् तथा
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः
त्रिसांध्यर्षिकुल्याद्यामहेन्द्रप्रभवाः स्मृताः ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसंभवाः
आसां नद्युपनद्यश् च सन्त्य् अन्यास् तु सहस्रशः तास्व् इमे कुरुपञ्चालमध्यदेशादयो जनाः
पूर्वदेशादिकाश् चैव कामरूपनिवासिनः पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश् च सर्वशः
तथा परान्त्याः सौराष्ट्राः शूद्राभीरास् तथार्बुदाः मारुका मालवाश् चैव पारियात्रनिवासिनः
सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः मद्रारामास् तथाम्बष्ठाः पारसीकादयस् तथा
आसां पिबन्ति सलिलं वसन्ति सरितां सदा समोपेता महाभाग हृष्टपुष्टजनाकुलाः
वसन्ति भारते वर्षे युगान्य् अत्र महामुने कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित्
तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः दानानि चात्र दीयन्ते परलोकार्थम् आदरात्
पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने यतो हि कर्मभूर् एषा यतो ऽन्या भोगभूमयः
अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसंचयन्
गायन्ति देवाः किल गीतकानि धन्यास् तु ये भारतभूमिभागे स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषा मनुष्याः
कर्माण्य् असंकल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे अवाप्य तां कर्ममहीम् अनन्ते तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति
जानीम नो तत्कूवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् प्राप्स्यन्ति धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविप्रहीनाः
नववर्षं च भो विप्रा जम्बूद्वीपम् इदं मया लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः