एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा दशाष्टदोषरहितैर् वाक्यैः सारतरैर् द्विजाः
पूर्णम् अस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम्
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् श्रावयित्वा यथान्यायं विरराम महामतिः
ते ऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम् आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम्
हृष्टा बभूवुः सुप्रीता विस्मिताश् च पुनः पुनः प्रशशंसुस् तदा व्यासं कृष्णद्वैपायनं मुनिम्
अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसंमितम् सर्वाभिप्रेतफलदं सर्वपापहरं परम्
प्रोक्तं श्रुतं तथास्माभिर् विचित्रपदम् अक्षरम् न ते ऽस्त्य् अविदितं किंचित् त्रिषु लोकेषु वै प्रभो
सर्वज्ञस् त्वं महाभाग देवेष्व् इव बृहस्पतिः नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम्
येन त्वया तु वेदार्था भारते प्रकटीकृताः कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने
अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः
नमो ऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्त्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः
अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ज्ञानाञ्जनशलाकेन त्वया चोन्मीलिता दृशः
एवम् उक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः जग्मुर् यथागतं सर्वे कृतकृत्याः स्वम् आश्रमम्
तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् पुराणं सुमहापुण्यं सर्वपापप्रणाशनम्
यथा भवद्भिः पृष्टो ऽहं संप्रश्नं द्विजसत्तमाः व्यासप्रसादात् तत् सर्वं मया संपरिकीर्तितम्
इदं गृहस्थैः श्रोतव्यं यतिभिर् ब्रह्मचारिभिः धनसौख्यप्रदं नॄणां पवित्रं पापनाशनम्
तथा ब्रह्मपरैर् विप्रैर् ब्राह्मणाद्यैः सुसंयतैः श्रोतव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः
प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे वैश्यस् तु धनम् अक्षय्यं शूद्रः सुखम् अवाप्नुयात्
यं यं कामम् अभिध्यायञ् शृणोति पुरुषः शुचिः तं तं कामम् अवाप्नोति नरो नास्त्य् अत्र संशयः
पुराणं वैष्णवं त्व् एतत् सर्वकिल्बिषनाशनम् विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम्
एतद् वो यन् मयाख्यातं पुराणं वेदसंमितम् श्रुते ऽस्मिन् सर्वदोषोत्थः पापराशिः प्रणश्यति
प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्बुदे उपोष्य यद् अवाप्नोति तद् अस्य श्रवणान् नरः
यद् अग्निहोत्रे सुहुते वर्षे नाप्नोति वै फलम् महापुण्यमयं विप्रास् तद् अस्य श्रवणात् सकृत्
यज् ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम्
तद् आप्नोति फलं सम्यक् समाधानेन कीर्तनात् पुराणे ऽस्य हितो विप्राः केशवार्पितमानसः
यत् फलं क्रियम् आलोक्य पुरुषो ऽथ लभेन् नरः तत् फलं समवाप्नोति यः पठेच् छृणुयाद् अपि
इदं यः श्रद्धया नित्यं पुराणं वेदसंमितम् यः पठेच् छृणुयान् मर्त्यः स याति भुवनं हरेः
श्रावयेद् ब्राह्मणो यस् तु सदा पर्वसु संयतः एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति
इदं यशस्यम् आयुष्यं सुखदं कीर्तिवर्धनम् बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम्
त्रिसंध्यं यः पठेद् विद्वाञ् श्रद्धया सुसमाहितः इदं वरिष्ठम् आख्यानं स सर्वम् ईप्सितं लभेत्