श्रद्धान्वितायाथ गुणान्विताय परापवादाद् विरताय नित्यम् विशुद्धयोगाय बुधाय चैव कृपावते ऽथ क्षमिणे हिताय
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय विनीतवेशाय नहैतुकात्मने सदैव गुह्यं त्व् इदम् एव देयम्
एतैर् गुणैर् हीनतमे न देयम् एतत् परं ब्रह्म विशुद्धम् आहुः न श्रेयसे योक्ष्यति तादृशे कृतं धर्मप्रवक्तारम् अपात्रदानात्
पृथ्वीम् इमां वा यदि रत्नपूर्णां दद्याद् अदेयं त्व् इदम् अव्रताय जितेन्द्रियाय प्रयताय देयं देयं परं तत्त्वविदे नरेन्द्र
कराल मा ते भयम् अस्ति किंचिद् एतच् छ्रुतं ब्रह्म परं त्वयाद्य यथावद् उक्तं परमं पवित्रं विशोकम् अत्यन्तम् अनादिमध्यम्
अगाधम् एतद् अजरामरं च निरामयं वीतभयं शिवं च समीक्ष्य मोहं परवादसंज्ञम् एतस्य तत्त्वार्थम् इमं विदित्वा
अवाप्तम् एतद् धि पुरा सनातनाद् धिरण्यगर्भाद् धि ततो नराधिप प्रसाद्य यत्नेन तम् उग्रतेजसं सनातनं ब्रह्म यथा त्वयैतत्
पृष्टस् त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि नोक्तम् अन्यत् यथावाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम्
एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः पञ्चविंशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा
पुनरावृत्तिम् आप्नोति परमं ज्ञानम् अव्ययम् नाति बुध्यति तत्त्वेन बुध्यमानो ऽजरामरम्
एतन् निःश्रेयसकरं ज्ञानं भोः परमं मया कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः
हिरण्यगर्भाद् ऋषिणा वसिष्ठेन समाहृतम् वसिष्ठाद् ऋषिशार्दूलो नारदो ऽवाप्तवान् इदम्
नारदाद् विदितं मह्यम् एतद् उक्तं सनातनम् मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत् परमं पदम्
येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः
अविज्ञानाच् च मूढात्मा पुनः पुनर् उपद्रवान् प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते
देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते यदि वा मुच्यते वापि तस्माद् अज्ञानसागरात्
अज्ञानसागरे घोरे ह्य् अव्यक्तागाध उच्यते अहन्य् अहनि मज्जन्ति यत्र भूतानि भो द्विजाः
तस्माद् अगाधाद् अव्यक्ताद् उपक्षीणात् सनातनात् तस्माद् यूयं विरजस्का वितमस्काश् च भो द्विजाः
एवं मया मुनिश्रेष्ठाः सारात् सारतरं परम् कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते
न नास्तिकाय दातव्यं नाभक्ताय कदाचन न दुष्टमतये विप्रा न श्रद्धाविमुखाय च
एवं पुरा मुनीन् व्यासः पुराणं श्लक्ष्णया गिरा दशाष्टदोषरहितैर् वाक्यैः सारतरैर् द्विजाः
पूर्णम् अस्तमलैः शुद्धैर् नानाशास्त्रसमुच्चयैः जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम्
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् श्रावयित्वा यथान्यायं विरराम महामतिः
ते ऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम् आद्यं ब्राह्माभिधानं च सर्ववाञ्छाफलप्रदम्
हृष्टा बभूवुः सुप्रीता विस्मिताश् च पुनः पुनः प्रशशंसुस् तदा व्यासं कृष्णद्वैपायनं मुनिम्
अहो त्वया मुनिश्रेष्ठ पुराणं श्रुतिसंमितम् सर्वाभिप्रेतफलदं सर्वपापहरं परम्
प्रोक्तं श्रुतं तथास्माभिर् विचित्रपदम् अक्षरम् न ते ऽस्त्य् अविदितं किंचित् त्रिषु लोकेषु वै प्रभो
सर्वज्ञस् त्वं महाभाग देवेष्व् इव बृहस्पतिः नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम्
येन त्वया तु वेदार्था भारते प्रकटीकृताः कः शक्नोति गुणान् वक्तुं तव सर्वान् महामुने
अधीत्य चतुरो वेदान् साङ्गान् व्याकरणानि च कृतवान् भारतं शास्त्रं तस्मै ज्ञानात्मने नमः