अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि न त्व् एवं बुध्यते ऽव्यक्तं सगुणं तात निर्गुणम्
कदाचित् त्व् एव खल्व् एतत् तद् आहुः प्रतिबुद्धकम् बुध्यते यदि चाव्यक्तम् एतद् वै पञ्चविंशकम्
बुध्यमानो भवत्य् एष ममात्मक इति श्रुतः अन्योन्यप्रतिबुद्धेन वदन्त्य् अव्यक्तम् अच्युतम्
अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते
षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम् सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते
दृश्यादृश्ये ह्य् अनुगततत्स्वभावे महाद्युते अव्यक्तं चैव तद् ब्रह्म बुध्यते तात केवलम्
पञ्चविंशं चतुर्विंशम् आत्मानम् अनुपश्यति बुध्यमानो यदात्मानम् अन्यो ऽहम् इति मन्यते
तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यथा
षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ततस् त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम्
निर्गुणां प्रकृतिं वेद गुणयुक्ताम् अचेतनाम् ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात्
केवलेन समागम्य विमुक्तात्मानम् आप्नुयात् एतत् तु तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम्
तत्त्वसंश्रवणाद् एव तत्त्वज्ञो जायते नृप पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
न चैव तत्त्ववांस् तात संसारेषु निमज्जति एषाम् उपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम्
षड्विंशो ऽयम् इति प्राज्ञो गृह्यमाणो ऽजरामरः केवलेन बलेनैव समतां यात्य् असंशयम्
षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्य् अबुद्धिमान् एतन् नानात्वम् इत्य् उक्तं सांख्यश्रुतिनिदर्शनात्
चेतनेन समेतस्य पञ्चविंशतिकस्य ह एकत्वं वै भवेत् तस्य यदा बुद्ध्यानुबुध्यते
बुध्यमानेन बुद्धेन समतां याति मैथिल सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप
निःसङ्गात्मानम् आसाद्य षड्विंशं कर्मजं विदुः विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते
चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात् एष ह्य् अप्रतिबुद्धश् च बुध्यमानस् तु ते ऽनघ
उक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात् मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः
मत्स्योदके यथा तद्वद् अन्यत्वम् उपलभ्यते एवम् एव च गन्तव्यं नानात्वैकत्वम् एतयोः
एतावन् मोक्ष इत्य् उक्तो ज्ञानविज्ञानसंज्ञितः पञ्चविंशतिकस्याशु यो ऽयं देहे प्रवर्तते
एष मोक्षयितव्यैति प्राहुर् अव्यक्तगोचरात् सो ऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः
परश् च परधर्मा च भवत्य् एव समेत्य वै विशुद्धधर्मा शुद्धेन नाशुद्धेन च बुद्धिमान्
विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ वियोगधर्मिणा चैव विमुक्तात्मा भवत्य् अथ
विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत् शुचिकर्मा शुचिश् चैव भवत्य् अमितबुद्धिमान्
विमलात्मा च भवति समेत्य विमलात्मना केवलात्मा तथा चैव केवलेन समेत्य वै स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्यते
एतावद् एतत् कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् अमत्सरस् त्वं प्रतिगृह्य बुद्ध्या सनातनं ब्रह्म विशुद्धम् आद्यम्
तद् वेदनिष्ठस्य जनस्य राजन् प्रदेयम् एतत् परमं त्वया भवेत् विधित्समानाय निबोधकारकं प्रबोधहेतोः प्रणतस्य शासनम्
न देयम् एतच् च यथानृतात्मने शठाय क्लीबाय न जिह्मबुद्धये न पण्डितज्ञानपरोपतापिने देयं तथा शिष्यविबोधनाय