यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते पश्यते च परं पश्यंस् तदा पश्यन् नु संसृजेत्
किं मया कृतम् एतावद् यो ऽहं कालनिमज्जनः यथा मत्स्यो ह्य् अभिज्ञानाद् अनुवर्तितवाञ् जलम्
अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम् मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह
मत्स्यो ऽन्यत्वम् अथाज्ञानाद् उदकान् नाभिमन्यते आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्य् अहम्
ममास्तु धिक् कुबुद्धस्य यो ऽहं मग्न इमं पुनः अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम्
अयम् अनुभवेद् बन्धुर् अनेन सह मे क्षयम् साम्यम् एकत्वतां यातो यादृशस् तादृशस् त्व् अहम्
तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तदा
यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान् संसर्गाद् अतिसंसर्गात् स्थितः कालम् इमं त्व् अहम्
सो ऽहम् एवं वशीभूतः कालम् एतं न बुद्धवान् उत्तमाधममध्यानां ताम् अहं कथम् आवसे
समानमायया चेह सहवासम् अहं कथम् गच्छाम्य् अबुद्धभावत्वाद् इहेदानीं स्थिरो भव
सहवासं न यास्यामि कालम् एतं विवञ्चनात् वञ्चितो ह्य् अनया यद् धि निर्विकारो विकारया
न तत् तदपराद्धं स्याद् अपराधो ह्य् अयं मम यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः
ततो ऽस्मिन् बहुरूपो ऽथ स्थितो मूर्तिर् अमूर्तिमान् अमूर्तिश् चाप्य् अमूर्तात्मा ममत्वेन प्रधर्षितः
प्रकृत्या च तया तेन तासु तास्व् इह योनिषु निर्ममस्य ममत्वेन विकृतं तासु तासु च
योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा समता न मया काचिद् अहंकारे कृता मया
आत्मानं बहुधा कृत्वा सो ऽयं भूयो युनक्ति माम् इदानीम् अवबुद्धो ऽस्मि निर्ममो निरहंकृतः
ममत्वं मनसा नित्यम् अहंकारकृतात्मकम् अपलग्नाम् इमां हित्वा संश्रयिष्ये निरामयम्
अनेन साम्यं यास्यामि नानयाहम् अचेतसा क्षेमं मम सहानेन नैवैकम् अनया सह
एवं परमसंबोधात् पञ्चविंशो ऽनुबुद्धवान् अक्षरत्वं निगच्छति त्यक्त्वा क्षरम् अनामयम्
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल
अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम् मयेह ज्ञानसंपन्नं यथा श्रुतिनिदर्शनात्
निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम्
सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् यद् एव सांख्यशास्त्रोक्तं योगदर्शनम् एव तत्
प्रबोधनपरं ज्ञानं सांख्यानाम् अवनीपते विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया
बृहच् चैवम् इदं शास्त्रम् इत्य् आहुर् विदुषो जनाः अस्मिंश् च शास्त्रे योगानां पुनर्भवपुरःसरम्
पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप सांख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम्
बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः बुध्यमानं च बुद्धत्वं प्राहुर् योगनिदर्शनम्
अप्रबुद्धम् अथाव्यक्तम् इमं गुणनिधिं सदा गुणानां धार्यतां तत्त्वं सृजत्य् आक्षिपते तथा
अजो हि क्रीडया भूप विक्रियां प्राप्त इत्य् उत आत्मानं बहुधा कृत्वा नानेव प्रतिचक्षते
एतद् एवं विकुर्वाणो बुध्यमानो न बुध्यते गुणान् आचरते ह्य् एष सृजत्य् आक्षिपते तथा