अभेद्यम् आहुर् अव्यक्तं सर्गप्रलयधर्मिणः सर्गप्रलय इत्य् उक्तं विद्याविद्ये च विंशकः
परस्परस्य विद्या वै तन् निबोधानुपूर्वशः यथोक्तम् ऋषिभिस् तात सांख्यस्यातिनिदर्शनम्
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्
विषयाणां मनस् तेषां विद्याम् आहुर् मनीषिणः मनसः पञ्च भूतानि विद्या इत्य् अभिचक्षते
अहंकारस् तु भूतानां पञ्चानां नात्र संशयः अहंकारस् तथा विद्या बुद्धिर् विद्या नरेश्वर
बुद्ध्या प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरः विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः
अव्यक्तम् अपरं प्राहुर् विद्या वै पञ्चविंशकः सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयज्ञानस्य पारगः
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे
उभाव् एतौ क्षराव् उक्तौ उभाव् एताव् अनक्षरौ कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः
अनादिनिधनाव् एतौ उभाव् एवेश्वरौ मतौ तत्त्वसंज्ञाव् उभाव् एव प्रोच्येते ज्ञानचिन्तकैः
सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अव्ययम् तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः
गुणानां महदादीनाम् उत्पद्यति परस्परम् अधिष्ठानं क्षेत्रम् आहुर् एतद् वै पञ्चविंशकम्
यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि संक्षिपेत् तद् अहं तद् गुणैस् तैस् तु पञ्चविंशे विलीयते
गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर् भवेत् क्षेत्रज्ञो ऽपि तदा तावत् क्षेत्रज्ञः संप्रणीयते
यदाक्षरं प्रकृतिर् यं गच्छते गुणसंज्ञिता निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात्
एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम
क्षरो भवत्य् एष यदा गुणवती गुणेष्व् अथ प्रकृतिं त्व् अथ जानाति निर्गुणत्वं तथात्मनः
तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान्
तदैषो ऽव्यथताम् एति न च मिश्रत्वम् आव्रजेत् प्रकृत्या चैष राजेन्द्र मिश्रो ऽन्यो ऽन्यस्य दृश्यते
यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते पश्यते च परं पश्यंस् तदा पश्यन् नु संसृजेत्
किं मया कृतम् एतावद् यो ऽहं कालनिमज्जनः यथा मत्स्यो ह्य् अभिज्ञानाद् अनुवर्तितवाञ् जलम्
अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम् मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह
मत्स्यो ऽन्यत्वम् अथाज्ञानाद् उदकान् नाभिमन्यते आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्य् अहम्
ममास्तु धिक् कुबुद्धस्य यो ऽहं मग्न इमं पुनः अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम्
अयम् अनुभवेद् बन्धुर् अनेन सह मे क्षयम् साम्यम् एकत्वतां यातो यादृशस् तादृशस् त्व् अहम्
तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तदा
यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान् संसर्गाद् अतिसंसर्गात् स्थितः कालम् इमं त्व् अहम्
सो ऽहम् एवं वशीभूतः कालम् एतं न बुद्धवान् उत्तमाधममध्यानां ताम् अहं कथम् आवसे
समानमायया चेह सहवासम् अहं कथम् गच्छाम्य् अबुद्धभावत्वाद् इहेदानीं स्थिरो भव