आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः गुणा गुणेषु सततं सागरस्योर्मयो यथा
सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि
एवम् एव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम्
एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम्
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते
अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते क्षेत्रम् अव्यक्त इत्य् उक्तं ज्ञातारं पञ्चविंशकम्
अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः
अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम्
सांख्यदर्शनम् एतावत् परिसंख्या न विद्यते संख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते
चत्वारिंशच् चतुर्विंशत् प्रतिसंख्याय तत्त्वतः संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः
पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः यदा बुध्यति आत्मानं तदा भवति केवलः
सम्यग्दर्शनम् एतावद् भाषितं तव तत्त्वतः एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस् तथा भवेत्
न त्व् एवं वर्तमानानाम् आवृत्तिर् वर्तते पुनः विद्यते क्षरभावश् च न परस्परम् अव्ययम्
पश्यन्त्य् अमतयो ये न सम्यक् तेषु च दर्शनम् ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनर् अरिंदम
सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात्
सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः य एवम् अभिजानन्ति न भयं तेषु विद्यते
सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः
अभेद्यम् आहुर् अव्यक्तं सर्गप्रलयधर्मिणः सर्गप्रलय इत्य् उक्तं विद्याविद्ये च विंशकः
परस्परस्य विद्या वै तन् निबोधानुपूर्वशः यथोक्तम् ऋषिभिस् तात सांख्यस्यातिनिदर्शनम्
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्
विषयाणां मनस् तेषां विद्याम् आहुर् मनीषिणः मनसः पञ्च भूतानि विद्या इत्य् अभिचक्षते
अहंकारस् तु भूतानां पञ्चानां नात्र संशयः अहंकारस् तथा विद्या बुद्धिर् विद्या नरेश्वर
बुद्ध्या प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरः विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः
अव्यक्तम् अपरं प्राहुर् विद्या वै पञ्चविंशकः सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयज्ञानस्य पारगः
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे
उभाव् एतौ क्षराव् उक्तौ उभाव् एताव् अनक्षरौ कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः