तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम् सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते
बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् महतस् तमसस् तात पारे तिष्ठन् न तामसः
तमसो दूर इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः विमलो विमतश् चैव निर्लिङ्गो ऽलिङ्गसंज्ञकः
योग एष हि लोकानां किम् अन्यद् योगलक्षणम् एवं पश्यन् प्रपश्येत आत्मानम् अजरं परम्
योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम्
अव्यक्तम् आहुः प्रख्यानं परां प्रकृतिम् आत्मनः तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम
अहंकारस् तु महतस् तृतीय इति नः श्रुतम् पञ्चभूतान्य् अहंकाराद् आहुः सांख्यात्मदर्शिनः
एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश पञ्च चैव विशेषाश् च तथा पञ्चेन्द्रियाणि च
एतावद् एव तत्त्वानां सांख्यम् आहुर् मनीषिणः सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः
यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना
आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः गुणा गुणेषु सततं सागरस्योर्मयो यथा
सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि
एवम् एव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम्
एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम्
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते
अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते क्षेत्रम् अव्यक्त इत्य् उक्तं ज्ञातारं पञ्चविंशकम्
अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः
अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम्
सांख्यदर्शनम् एतावत् परिसंख्या न विद्यते संख्या प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते
चत्वारिंशच् चतुर्विंशत् प्रतिसंख्याय तत्त्वतः संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः
पञ्चविंशत् प्रबुद्धात्मा बुध्यमान इति श्रुतः यदा बुध्यति आत्मानं तदा भवति केवलः
सम्यग्दर्शनम् एतावद् भाषितं तव तत्त्वतः एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा गुणवत्त्वाद् यथैतानि निर्गुणेभ्यस् तथा भवेत्
न त्व् एवं वर्तमानानाम् आवृत्तिर् वर्तते पुनः विद्यते क्षरभावश् च न परस्परम् अव्ययम्
पश्यन्त्य् अमतयो ये न सम्यक् तेषु च दर्शनम् ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनर् अरिंदम
सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात्
सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः य एवम् अभिजानन्ति न भयं तेषु विद्यते
सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः