अरुणोदं महाभद्रम् असितोदं समानसम् सरांस्य् एतानि चत्वारि देवभोग्यानि सर्वदा
शान्तवांश् चक्रकुञ्जश् च कुररी माल्यवांस् तथा वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः
त्रिकूटः शिशिरश् चैव पतंगो रुचकस् तथा निषधादयो दक्षिणतस् तस्य केसरपर्वताः
शिखिवासः सवैदूर्यः कपिलो गन्धमादनः जानुधिप्रमुखास् तद्वत् पश्चिमे केसराचलाः
मेरोर् अनन्तरास् ते च जठरादिष्व् अवस्थिताः शङ्खकूटो ऽथ ऋषभो हंसो नागस् तथापराः
कालञ्जराद्याश् च तथा उत्तरे केसराचलाः चतुर्दश सहस्राणि योजनानां महापुरी
मेरोर् उपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि तस्यां समन्ततश् चाष्टौ दिशासु विदिशासु च
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम्
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत
सीता चालकनन्दा च चक्षुर् बध्रा च वै क्रमात् पूर्वेण सीता शैलाच् च शैलं यान्त्य् अन्तरिक्षगा
ततश् च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् तथैवालकनन्दा च दक्षिणेनैत्य भारतम्
प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः चक्षुश् च पश्चिमगिरीन् अतीत्य सकलांस् ततः
पश्चिमं केतुमालाख्यं वर्षम् अन्वेति सार्णवम् भद्रा तथोत्तरगिरीन् उत्तरांश् च तथा कुरून्
अतीत्योत्तरम् अम्भोधिं समभ्येति द्विजोत्तमाः आनीलनिषधायामौ माल्यवद्गन्धमादनौ
तयोर् मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा
पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः जठरो देवकूटश् च मर्यादापर्वताव् उभौ
तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ गन्धमादनकैलासौ पूर्वपश्चात् तु ताव् उभौ
अशीतियोजनायामाव् अर्णवान्तर्व्यवस्थितौ निषधः पारियात्रश् च मर्यादापर्वताव् उभौ
तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ
त्रिशृङ्गो जारुधिश् चैव उत्तरौ वर्षपर्वतौ पूर्वपश्चायताव् एताव् अर्णवान्तर्व्यवस्थितौ
इत्य् एते हि मया प्रोक्ता मर्यादापर्वता द्विजाः जठरावस्थिता मेरोर् येषां द्वौ द्वौ चतुर्दिशम्
मेरोश् चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः शीतान्ताद्या द्विजास् तेषाम् अतीव हि मनोहराः
शैलानाम् अन्तरद्रोण्यः सिद्धचारणसेविताः सुरम्याणि तथा तासु काननानि पुराणि च
लक्ष्मीविष्ण्वग्निसूर्येन्द्रदेवानां मुनिसत्तमाः तास्व् आयतनवर्याणि जुष्टानि नरकिंनरैः
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः क्रीडन्ति तासु रम्यासु शैलद्रोणीष्व् अहर्निशम्
भौमा ह्य् एते स्मृताः स्वर्गा धर्मिणाम् आलया द्विजाः नैतेषु पापकर्तारो यान्ति जन्मशतैर् अपि
भद्राश्वे भगवान् विष्णुर् आस्ते हयशिरा द्विजाः वाराहः केतुमाले तु भारते कूर्मरूपधृक्
मत्स्यरूपश् च गोविन्दः कुरुष्व् आस्ते सनातनः विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः
सर्वस्याधारभूतो ऽसौ द्विजा आस्ते ऽखिलात्मकः यानि किंपुरुषाद्यानि वर्षाण्य् अष्टौ द्विजोत्तमाः
न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः