यत् तद् बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात्
अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुर् ईश्वरम् निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च
प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः
यदा प्रबुद्धम् अव्यक्तम् अवस्थातननीरवः बुध्यमानं न बुध्यन्ते ऽवगच्छन्ति समं तदा
एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिंदम
परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते
पञ्चविंशतिनिष्ठो ऽयं तदा सम्यक् प्रचक्षते एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम्
तत्त्ववित् तत्त्वयोर् एव पृथग् एतन् निदर्शनम् पञ्चविंशतिभिस् तत्त्वं तत्त्वम् आहुर् मनीषिणः
निस्तत्त्वं पञ्चविंशस्य परम् आहुर् मनीषिणः वर्ज्यस्य वर्ज्यम् आचारं तत्त्वं तत्त्वात् सनातनम्
नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् द्विजसत्तम पश्यतस् तद् धि संदिग्धम् एतयोर् वै निदर्शनम्
तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः
अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ
तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः
विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक्
हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि योगकृत्यं महाराज पृथग् एव शृणुष्व मे
योगकृत्यं तु योगानां ध्यानम् एव परं बलम् तच् चापि द्विविधं ध्यानम् आहुर् विद्याविदो जनाः
एकाग्रता च मनसः प्राणायामस् तथैव च प्राणायामस् तु सगुणो निर्गुणो मानसस् तथा
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः दशद्वादशभिर् वापि चतुर्विंशात् परं यतः
स चोदनाभिर् मतिमान् नात्मानं चोदयेद् अथ तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः
विश्वात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः पूर्वरात्रे परार्धे च धारयीत मनो हृदि
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः
स्थाणुवच् चाप्य् अकम्प्यः स्याद् दारुवच् चापि निश्चलः बुद्ध्या विधिविधानज्ञस् ततो युक्तं प्रचक्षते
न शृणोति न चाघ्राति न च पश्यति किंचन न च स्पर्शं विजानाति न च संकल्पते मनः
न चापि मन्यते किंचिन् न च बुध्येत काष्ठवत् तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः
न भाति हि यथा दीपो दीप्तिस् तद्वच् च दृश्यते निलिङ्गश् चाधश् चोर्ध्वं च तिर्यग्गतिम् अवाप्नुयात्
तदा तदुपपन्नश् च यस्मिन् दृष्टे च कथ्यते हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः
निर्धूम इव सप्तार्चिर् आदित्य इव रश्मिवान् वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मनि
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः ब्राह्मणा ब्रह्मयोनिस्था ह्य् अयोनिम् अमृतात्मकम्