द्रव्याद् द्रव्यस्य निर्वृत्तिर् इन्द्रियाद् इन्द्रियं तथा देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च
निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः
गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च
त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतेन वै
पुमांश् चैवापुमांश् चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् वायुर् एष पुमांश् चैव रस इत्य् अभिधीयते
अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः यथा पुष्पफलैर् नित्यं मूर्तं चामूर्तयस् तथा
एवम् अप्य् अनुमानेन स लिङ्गम् उपलभ्यते पञ्चविंशतिकस् तात लिङ्गेषु नियतात्मकः
अनादिनिधनो ऽनन्तः सर्वदर्शनकेवलः केवलं त्व् अभिमानित्वाद् गुणेषु गुण उच्यते
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः
यदा त्व् एष गुणान् एतान् प्राकृतान् अभिमन्यते तदा स गुणवान् एव गुणभेदान् प्रपश्यति
यत् तद् बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात्
अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुर् ईश्वरम् निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च
प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः
यदा प्रबुद्धम् अव्यक्तम् अवस्थातननीरवः बुध्यमानं न बुध्यन्ते ऽवगच्छन्ति समं तदा
एतन् निदर्शनं सम्यङ् न सम्यग् अनुदर्शनम् बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथग् अरिंदम
परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते
पञ्चविंशतिनिष्ठो ऽयं तदा सम्यक् प्रचक्षते एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम्
तत्त्ववित् तत्त्वयोर् एव पृथग् एतन् निदर्शनम् पञ्चविंशतिभिस् तत्त्वं तत्त्वम् आहुर् मनीषिणः
निस्तत्त्वं पञ्चविंशस्य परम् आहुर् मनीषिणः वर्ज्यस्य वर्ज्यम् आचारं तत्त्वं तत्त्वात् सनातनम्
नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् द्विजसत्तम पश्यतस् तद् धि संदिग्धम् एतयोर् वै निदर्शनम्
तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः
अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ
तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः
विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक् पृथक्
हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि योगकृत्यं महाराज पृथग् एव शृणुष्व मे
योगकृत्यं तु योगानां ध्यानम् एव परं बलम् तच् चापि द्विविधं ध्यानम् आहुर् विद्याविदो जनाः
एकाग्रता च मनसः प्राणायामस् तथैव च प्राणायामस् तु सगुणो निर्गुणो मानसस् तथा
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप द्विकालं नोपभुञ्जीत शेषं भुञ्जीत तत्परः
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः दशद्वादशभिर् वापि चतुर्विंशात् परं यतः
स चोदनाभिर् मतिमान् नात्मानं चोदयेद् अथ तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः