असत्त्वं सत्त्वम् आत्मानम् अमृतं मृतम् आत्मनः अमृत्युं मृत्युम् आत्मानम् अचरं चरम् आत्मनः
अक्षेत्रं क्षेत्रम् आत्मानम् असङ्गं सङ्गम् आत्मनः अतत्त्वं तत्त्वम् आत्मानम् अभवं भवम् आत्मनः
अक्षरं क्षरम् आत्मानम् अबुद्धत्वाद् धि मन्यते एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति जन्मान्तरसहस्राणि मरणान्तानि गच्छति
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः
नीयते ऽप्रतिबुद्धत्वाद् एवम् एव कुबुद्धिमान् कला पञ्चदशी योनिस् तद् धाम इति पठ्यते
नित्यम् एव विजानीहि सोमं वै षोडशांशकैः कलया जायते ऽजस्रं पुनः पुनर् अबुद्धिमान्
धीमांश् चायं न भवति नृप एवं हि जायते षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्
न तूपयुज्यते देवैर् देवान् अपि युनक्ति सः ममत्वं क्षपयित्वा तु जायते नृपसत्तम प्रकृतेस् त्रिगुणायास् तु स एव त्रिगुणो भवेत्
अक्षरक्षरयोर् एष द्वयोः संबन्ध इष्यते स्त्रीपुंसयोर् वा संबन्धः स वै पुरुष उच्यते
ऋते तु पुरुषं नेह स्त्री गर्भान् धारयत्य् उत ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा
अन्योन्यस्याभिसंबन्धाद् अन्योन्यगुणसंश्रयात् रूपं निर्वर्तयेद् एतद् एवं सर्वासु योनिषु
रत्यर्थम् अतिसंयोगाद् अन्योन्यगुणसंश्रयात् ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम्
ये गुणाः पुरुषस्येह ये च मातुर् गुणास् तथा अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज
त्वङ्मांसशोणितं चेति मातृजान्य् अनुशुश्रुम एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम्
एवम् एवाभिसंबन्धौ नित्यं प्रकृतिपूरुषौ यच् चापि भगवंस् तस्मान् मोक्षधर्मो न विद्यते
अथवानन्तरकृतं किंचिद् एव निदर्शनम् तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वदा
मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् अजेयम् अजरं नित्यम् अतीन्द्रियम् अनीश्वरम्
यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् एवम् एतद् यथा वक्ष्ये तत्त्वग्राही यथा भवान्
धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद्धारणं वृथा
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा
ग्रन्थस्यार्थं स पृष्टस् तु मादृशो वक्तुम् अर्हति यथातत्त्वाभिगमनाद् अर्थं तस्य स विन्दति
न यः समुत्सुकः कश्चिद् ग्रन्थार्थं स्थूलबुद्धिमान् स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः लोभाद् वाप्य् अथवा दम्भात् स पापी नरकं व्रजेत्
निर्णयं चापि च्छिद्रात्मा न तद् वक्ष्यति तत्त्वतः सो ऽपीहास्यार्थतत्त्वज्ञो यस्मान् नैवात्मवान् अपि
तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु
यद् एव योगाः पश्यन्ति सांख्यं तद् अनुगम्यते एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्
त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च एतद् ऐन्द्रियकं तात यद् भवान् इत्थम् आत्थ माम्