एवम् अव्यक्तविषयं मोक्षम् आहुर् मनीषिणः पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते
एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते देहाद् देहसहस्राणि तथा च न स भिद्यते
तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्व् अपि उत्पद्यति तपोयोगाद् गुणैः सह गुणक्षयात्
मनुष्यत्वाद् दिवं याति देवो मानुष्यम् एति च मानुष्यान् निरयस्थानम् आलयं प्रतिपद्यते
कोषकारो यथात्मानं कीटः समभिरुन्धति सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः
द्वंद्वम् एति च निर्द्वंद्वस् तासु तास्व् इह योनिषु शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे
जलोदरे ऽतिसारे च गण्डमालाविचर्चिके श्वित्रकुष्ठे ऽग्निदग्धे च सिध्मापस्मारयोर् अपि
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् उत्पद्यन्ते विचित्राणि तान्य् एवात्माभिमन्यते
अभिमानातिमानानां तथैव सुकृतान्य् अपि एकवासाश् चतुर्वासाः शायी नित्यम् अधस् तथा
मण्डूकशायी च तथा वीरासनगतस् तथा वीरम् आसनम् आकाशे तथा शयनम् एव च
इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः
वीरस्थानाम्बुपाके च शयनं फलकेषु च विविधासु च शय्यासु फलगृह्यान्वितासु च
उद्याने खललग्ने तु क्षौमकृष्णाजिनान्वितः मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः
सिंहचर्मपरीधानः पट्टवासास् तथैव च फलकं परिधानश् च तथा कटकवस्त्रधृक्
कटैकवसनश् चैव चीरवासास् तथैव च वस्त्राणि चान्यानि बहून्य् अभिमत्य च बुद्धिमान्
भोजनानि विचित्राणि रत्नानि विविधानि च एकरात्रान्तराशित्वम् एककालिकभोजनम्
चतुर्थाष्टमकालं च षष्ठकालिकम् एव च षड्रात्रभोजनश् चैव तथा चाष्टाहभोजनः
मासोपवासी मूलाशी फलाहारस् तथैव च वायुभक्षश् च पिण्याकदधिगोमयभोजनः
गोमूत्रभोजनश् चैव काशपुष्पाशनस् तथा शैवालभोजनश् चैव तथा चान्येन वर्तयन्
वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया
चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्य् अपि
उपाश्रयान् अप्य् अपरान् पाखण्डान् विविधान् अपि विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च
पुलिनानि विविक्तानि विविधानि वनानि च काननेषु विविक्ताश् च शैलानां महतीर् गुहाः
नियमान् विविधांश् चापि विविधानि तपांसि च यज्ञांश् च विविधाकारान् विद्याश् च विविधास् तथा
वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस् तथैव च दानं च विविधाकारं दीनान्धकृपणादिषु
अभिमन्येत संधातुं तथैव विविधान् गुणान् सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च
प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत स्वाहाकारवषट्कारौ स्वधाकारनमस्क्रिये
यजनाध्ययने दानं तथैवाहुः प्रतिग्रहम् याजनाध्यापने चैव तथान्यद् अपि किंचन
जन्ममृत्युविधानेन तथा विशसनेन च शुभाशुभभयं सर्वम् एतद् आहुः सनातनम्
प्रकृतिः कुरुते देवी भयं प्रलयम् एव च दिवसान्ते गुणान् एतान् अतीत्यैको ऽवतिष्ठते