विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः धृतम् एकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना
तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना
प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् अहंकारं महातेजाः प्रजापतिनमस्कृतम्
अव्यक्ताद् व्यक्तिम् आपन्नं विद्यासर्गं वदन्ति तम् महान्तं चाप्य् अहंकारम् अविद्यासर्ग एव च
अचरश् च चरश् चैव समुत्पन्नौ तथैकतः विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः
भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम्
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च
एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थकृत्
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् वाग् हस्तौ चैव पादौ च पायुर् मेढ्रं तथैव च
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च संभूतानीह युगपन् मनसा सह पार्थिव
एषा तत्त्वचतुर्विंशा सर्वाकृतिः प्रवर्तते यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः
एवम् एतत् समुत्पन्नं त्रैलोक्यम् इदम् उत्तमम् वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे
सयक्षभूतगन्धर्वे सकिंनरमहोरगे सचारणपिशाचे वै सदेवर्षिनिशाचरे
सदंशकीटमशके सपूतिकृमिमूषके शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह या च मूर्तिश् च यत् किंचित् सर्वत्रैतन् निदर्शनम्
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः स्थानं देहवताम् आसीद् इत्य् एवम् अनुशुश्रुम
कृत्स्नम् एतावतस् तात क्षरते व्यक्तसंज्ञकः अहन्य् अहनि भूतात्मा यच् चाक्षर इति स्मृतम्
ततस् तत् क्षरम् इत्य् उक्तं क्षरतीदं यथा जगत् जगन् मोहात्मकं चाहुर् अव्यक्ताद् व्यक्तसंज्ञकम्
महांश् चैवाक्षरो नित्यम् एतत् क्षरविवर्जनम् कथितं ते महाराज यस्मान् नावर्तते पुनः
पञ्चविंशतिको ऽमूर्तः स नित्यस् तत्त्वसंज्ञकः सत्त्वसंश्रयणात् तत्त्वं सत्त्वम् आहुर् मनीषिणः
यद् अमूर्तिः सृजद् व्यक्तं तन् मूर्तिम् अधितिष्ठति चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तिः पञ्चविंशकः
स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठतात्मवान् चेतयंश् चेतनो नित्यं सर्वमूर्तिर् अमूर्तिमान्
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः
एवम् एष महात्मा च सर्गप्रलयकोटिशः विकुर्वाणः प्रकृतिमान् नाभिमन्येत बुद्धिमान्
तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु लीयते प्रतिबुद्धत्वाद् अबुद्धजनसेवनात्
सहवासनिवासत्वाद् बालो ऽहम् इति मन्यते यो ऽहं न सो ऽहम् इत्य् उक्तो गुणान् एवानुवर्तते
तमसा तामसान् भावान् विविधान् प्रतिपद्यते रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात्
शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि तु
तामसा निरयं यान्ति राजसा मानुषान् अथ सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः
निष्केवलेन पापेन तिर्यग्योनिम् अवाप्नुयात् पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः