तेषां तु तिर्यग्गमनं हि दृष्टं नाधो गतिः पापकृतां निवासः न वा प्रधाना अपि ते द्विजातयो ये ज्ञानम् एतन् मुनयो न सक्ताः
सांख्यं विशालं परमं पुराणं महार्णवं विमलम् उदारकान्तम् कृत्स्नं हि सांख्या मुनयो महात्म नारायणे धारयताप्रमेयम्
एतन् मयोक्तं परमं हि तत्त्वं नारायणाद् विश्वम् इदं पुराणम् स सर्गकाले च करोति सर्गं संहारकाले च हरेत भूयः
किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः किंस्वित् तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः
अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः
तद् एतच् छ्रोतुम् इच्छामस् त्वत्तः सर्वं महामते न तृप्तिम् अधिगच्छामः शृण्वन्तो ऽमृतम् उत्तमम्
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् वसिष्ठस्य च संवादं करालजनकस्य च
वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्
परमात्मनि कुशलम् अध्यात्मगतिनिश्चयम् मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः
स्वच्छन्दं सुकृतं चैव मधुरं चाप्य् अनुल्बणम् पप्रच्छर्षिवरं राजा करालजनकः पुरा
भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् यस्मिन् न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः
यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत् यच् चाक्षरम् इति प्रोक्तं शिवं क्षेमम् अनामयम्
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् यत्र क्षरति पूर्वेण यावत्कालेन चाप्य् अथ
युगं द्वादशसाहस्र्यं कल्पं विद्धि चतुर्युगम् दशकल्पशतावर्तम् अहस् तद् ब्राह्मम् उच्यते
रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते सृजत्य् अनन्तकर्माणि महान्तं भूतम् अग्रजम्
मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम
अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतिः
महान् इति च योगेषु विरिञ्चिर् इति चाप्य् अथ सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः धृतम् एकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना
तथैव बहुरूपत्वाद् विश्वरूप इति श्रुतः एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना
प्रधानं तस्य संयोगाद् उत्पन्नं सुमहत् पुरम् अहंकारं महातेजाः प्रजापतिनमस्कृतम्
अव्यक्ताद् व्यक्तिम् आपन्नं विद्यासर्गं वदन्ति तम् महान्तं चाप्य् अहंकारम् अविद्यासर्ग एव च
अचरश् च चरश् चैव समुत्पन्नौ तथैकतः विद्याविद्येति विख्याते श्रुतिशास्त्रानुचिन्तकैः
भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम्
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च
एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थकृत्
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् वाग् हस्तौ चैव पादौ च पायुर् मेढ्रं तथैव च
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च संभूतानीह युगपन् मनसा सह पार्थिव