गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः
अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः
प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम् नारायणं महात्मानं निर्विकारं परात् परम्
विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम् परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः आगच्छन्ति यथाकालं गुरोः संदेशकारिणः
शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा एवम् उक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम्
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते
अत्र वः संशयो मा भूज् ज्ञानं सांख्यं परं मतम् अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम्
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः
सर्वे विप्राश् च वेदाश् च तथा सामविदो जनाः ब्रह्मण्यं परमं देवम् अनन्तं परमाच्युतम्
प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः सम्यग् उक्तास् तथा योगाः सांख्याश् चामितदर्शनाः
अमूर्तिस् तस्य विप्रेन्द्राः सांख्यं मूर्तिर् इति श्रुतिः अभिज्ञानानि तस्याहुर् महान्ति मुनिसत्तमाः
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते
ज्ञानं महद् वै महतश् च विप्रा वेदेषु सांख्येषु तथैव योगे यच् चापि दृष्टं विधिवत् पुराणे सांख्यागतं तन् निखिलं मुनीन्द्राः
यच् चेतिहासेषु महत्सु दृष्टं यथार्थशास्त्रेषु विशिष्टदृष्टम् ज्ञानं च लोके यद् इहास्ति किंचित् सांख्यागतं तच् च महामुनीन्द्राः
समस्तदृष्टं परमं बलं च ज्ञानं च मोक्षश् च यथावद् उक्तम् तपांसि सूक्ष्माणि च यानि चैव सांख्ये यथावद् विहितानि विप्राः
विपर्ययं तस्य हितं सदैव गच्छन्ति सांख्याः सततं सुखेन तांश् चापि संधार्य ततः कृतार्थाः पतन्ति विप्रायतनेषु भूयः
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश् चापि च योगसांख्याः अतो ऽधिकं ते ऽभिरता महार्हे सांख्ये द्विजा भो इह शिष्टजुष्टे
तेषां तु तिर्यग्गमनं हि दृष्टं नाधो गतिः पापकृतां निवासः न वा प्रधाना अपि ते द्विजातयो ये ज्ञानम् एतन् मुनयो न सक्ताः
सांख्यं विशालं परमं पुराणं महार्णवं विमलम् उदारकान्तम् कृत्स्नं हि सांख्या मुनयो महात्म नारायणे धारयताप्रमेयम्
एतन् मयोक्तं परमं हि तत्त्वं नारायणाद् विश्वम् इदं पुराणम् स सर्गकाले च करोति सर्गं संहारकाले च हरेत भूयः
किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः किंस्वित् तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः
अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः
तद् एतच् छ्रोतुम् इच्छामस् त्वत्तः सर्वं महामते न तृप्तिम् अधिगच्छामः शृण्वन्तो ऽमृतम् उत्तमम्
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् वसिष्ठस्य च संवादं करालजनकस्य च
वसिष्ठं श्रेष्ठम् आसीनम् ऋषीणां भास्करद्युतिम् पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्
परमात्मनि कुशलम् अध्यात्मगतिनिश्चयम् मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः