पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् स तान् वहति विप्रेन्द्रा नभसः परमां गतिम्
नभो वहति लोकेशान् रजसः परमां गतिम् रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम्
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना
परमात्मानम् आसाद्य तद्भूता यतयो ऽमलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः
परमा सा गतिर् विप्रा निर्द्वंद्वानां महात्मनाम् सत्यार्जवरतानां वै सर्वभूतदयावताम्
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः आजन्ममरणं वा ते रमन्ते तत्र वा न वा
यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत्
यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश् च संकटः बुधानाम् अपि संमोहः प्रश्ने ऽस्मिन् मुनिसत्तमाः
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम बुद्धिश् च परमा यत्र कपिलानां महात्मनाम्
इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनां द्विजाः करणान्य् आत्मनस् तानि सूक्ष्मं पश्यन्ति तैस् तु सः
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु विनश्यन्ति न संदेहो वेला इव महार्णवे
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः बुध्यमानो यथापूर्वम् अखिलेनेह भो द्विजाः
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः आक्रम्य गतयः सूक्ष्मा वरत्य् आत्मा न संशयः
सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च सत्तमाः
गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः
अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः
प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम् नारायणं महात्मानं निर्विकारं परात् परम्
विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम् परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः आगच्छन्ति यथाकालं गुरोः संदेशकारिणः
शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा एवम् उक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम्
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते
अत्र वः संशयो मा भूज् ज्ञानं सांख्यं परं मतम् अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम्
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः