कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम एतं नः संशयं कृत्स्नं वक्तुम् अर्हस्य् अशेषतः
पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् सत्त्वसंसेवनान् निद्राम् अप्रमादाद् भयं तथा
छिन्दन्ति पञ्चमं श्वासम् अल्पाहारतया द्विजाः गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि
हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः अपां फेनोपमं लोकं विष्णोर् मायाशतैः कृतम्
चित्रभित्तिप्रतीकाशं नलसारम् अनर्थकम् तमःसंभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम्
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम्
सांख्या विप्रा महाप्राज्ञास् त्यक्त्वा स्नेहं प्रजाकृतम् ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः
राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान्
छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम्
व्याधिमृत्युमहाघोरं महाभयमहोरगम् तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः
हर्षसंघमहावेगं नानारससमाकुलम् नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम्
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम्
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम्
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम्
मोक्षदुर्लभविषयं वाडवासुखसागरम् तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ततस् तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः
पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् स तान् वहति विप्रेन्द्रा नभसः परमां गतिम्
नभो वहति लोकेशान् रजसः परमां गतिम् रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम्
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना
परमात्मानम् आसाद्य तद्भूता यतयो ऽमलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः
परमा सा गतिर् विप्रा निर्द्वंद्वानां महात्मनाम् सत्यार्जवरतानां वै सर्वभूतदयावताम्
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः आजन्ममरणं वा ते रमन्ते तत्र वा न वा
यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे