तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् नभो महति संयुक्तं तमो महसि संस्थितम्
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि सक्तम् आत्मानम् ईशे च देवे नारायणे तथा
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान्
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः
प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान् सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतपान्
सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम्
वैतरण्यां च यद् दुःखं पतितानां यमक्षये योनिषु च विचित्रासु संचारान् अशुभांस् तथा
जठरे चाशुभे वासं शोणितोदकभाजने श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे शिराशतसमाकीर्णे नवद्वारे पुरे ऽथ वै
विज्ञाय हितम् आत्मानं योगांश् च विविधान् द्विजाः तामसानां च जन्तूनां रमणीयानृतात्मनाम्
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम्
उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम्
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् रागं मोहं च संप्राप्तं क्वचित् सत्त्वं समाश्रितम्
सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम्
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः विषयाणां च दौरात्म्यं विज्ञाय च पुनर् द्विजाः
गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम्
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्
जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः सदेवकेषु लोकेषु येन वर्तन्ति मानवाः
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक्
वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा क्षयं संवत्सराणां च मासानां च क्षयं तथा
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः क्षयं धनानां दृष्ट्वा च पुनर् वृद्धिं तथैव च
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः
आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संस्थितान् स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान्